🔄

  • राधापरिणय महाकाव्यम्: Radha Parinaya Mahakavyam - Motilal Banarsidass author
  • राधापरिणय महाकाव्यम्: Radha Parinaya Mahakavyam - Motilal Banarsidass author
  • राधापरिणय महाकाव्यम्: Radha Parinaya Mahakavyam - Motilal Banarsidass author
  • राधापरिणय महाकाव्यम्: Radha Parinaya Mahakavyam - Motilal Banarsidass author

राधापरिणय महाकाव्यम्: Radha Parinaya Mahakavyam

Publisher: Nag Publishers
Language: Sanskrit
Total Pages: 217
Available in: Hardbound
Regular price Rs. 300.00 Sale price Rs. 400.00
Unit price per
Tax included.

Description

श्रीकृष्णस्य प्रादुर्भाव-वाल्यर्चाग्न-शौर्य-तारुण्यालौकिकमहत्त्वादिना राधा-कृष्णयोः सहैव परिणयोपन्यासो हि विशेषतश्चारित्रिकोत्कर्षाधायकोऽभिनिवेशि-तोऽस्मिन् भव्ये राधापरिणय-महाकाव्ये । प्रभूतालङ्कारच्छन्दोरीति- रुचिराणि विद्यन्तेऽत्र पदानि, अभिधया लक्षणया चाप्रधानवृत्त्या प्रतिपादिताः पदार्थाः प्रायेण विच्छित्ति-विशेषाधायिव्यङ्गय-व्यञ्जकतया पदकदम्बकानीव गुणपदवीं नातिशेरते सत्यामपि संहतावलङ्कृतीनाम्, कलाकलापेन परमेश्वरावतारः श्रीकृष्णः प्रधानं धीरोदात्तनायकः नायिका च श्रीराधा, शृङ्गारस्तदधिष्ठातृदैवतकः प्रबन्धस्य परे तु रसाः पदवाक्यसर्गादीनां ध्वनेरध्वनि पथिकतां दधाना अङ्गाङ्गिभावेन सङ्गच्छन्ते ।

अत्र प्रथमे सर्गे आद्यन्तमन्त्यानुप्रासः प्रतिपद्यं हृद्यतया निवेशितो, यो हि संस्कृत-साहित्ये विरलप्रयोग एव । स हि भाषाकाव्यमिवाह्लादकारित्वेन भजते । विविधवर्णनानि साफल्यं हि समसामयिक-वस्तु-व्यवहाराद्यनुरूपाणि विराजन्ते । अस्मिन् महाकाव्ये कुमारसम्भव इवेतिवृत्तनाम्ना काव्यस्य, गीतगोविन्द इव च उपादेयकथानाम्ना सर्गाणां नामविधानं नूनमावश्यकमपि यमकादिचित्रकात्र्यं प्राचीन-कतिपय महाकविकाव्यालोकननोप-निबद्धं नितरां संहृदयान् मोदयतिनराम ।