🔄

  • वाङ्मय-शेमुषी-Vanmaya-Shemushi
  • वाङ्मय-शेमुषी-Vanmaya-Shemushi
  • वाङ्मय-शेमुषी-Vanmaya-Shemushi
  • वाङ्मय-शेमुषी-Vanmaya-Shemushi
  • वाङ्मय-शेमुषी-Vanmaya-Shemushi
  • वाङ्मय-शेमुषी-Vanmaya-Shemushi
  • वाङ्मय-शेमुषी-Vanmaya-Shemushi
  • वाङ्मय-शेमुषी-Vanmaya-Shemushi

वाङ्मय-शेमुषी-Vanmaya-Shemushi

Vangmaya-Shemushi
Publisher: Nag Publishers
Language: Sanskrit
Total Pages: 392
Available in: Hardbound
Regular price Rs. 400.00 Sale price Rs. 500.00
Unit price per
Tax included.

Description

अखिलदेववाणीवाङ्मयेऽनेके विषयाः समाम्नाताः वर्तन्ते। वेद-काव्य-शास्त्र साहित्य-पुराणोपपुराणेतिहासाऽद्यतन-काव्य-साहित्य दर्शनागमप्रभृतयो नैके विषयाविद्वज्जन-वल्लभाः दरीदृश्यन्ते। श्रीमदभिनवगुप्तपादा-चार्येणाऽभिनवभारतीटीकायां शोधविषये व्यलेखि यन् 'मतानि तान्येव तु शोधितानि' अथ च मल्लिनाथेनाऽपि शोधशेमुषी समुदघोषि-नामूलं लिख्यते 'किञ्चिन्नानपेक्षितमुच्यते' इति। एवं शोध-मूलभूतयोरुभयोराचार्ययोर्मतं मनसि विन्यस्य मयाऽत्र किञ्चित्कार्यमनु-सन्धानधिया व्यधायि। तत्सर्व देववाणी-भाषया प्रकाशयितुमुत्सहे ऽहम् । ग्रन्थे ऽस्मिन् विषयदृष्ट्या पञ्चशेमुषीका विभागा व्यधायिषत लेखकेन। प्रथमा वेदशेमुषी, द्वितीया काव्यशास्त्र - शेमुषी, तृतीया साहित्यो पपुराणशे मुषी, चतुर्थी आधुनिककाव्य-शेमुषी, पञ्चमी दर्शनागम शेमुषी चेति विषयविभागोऽत्र विहितः। एतासु शेमुषीषु नामसदृशा एव विषयाः शोधपरा वरीवर्तन्ते। एतेषु शोधनिबन्धेषु गूढा एतादृशा विषया अपि सन्ति, ये न केवलं सामान्यविद्यार्थिनां समुपयोगिनो भवितुमर्हन्ति, अपितु तत्तद्विषयवैदुष्यशेमुषीकाणां सुधियामर्षि मनांसि हर्तुं प्रभवन्ति हृदयानि चाऽऽवर्जयन्तीति निश्चप्रचमेव ज्ञानाय कल्प्यन्ते ।