Description
पुस्तक परिचयः
'साहित्यविमर्श' -नामा ग्रन्थो शास्त्रीयाणां निबन्धानां सङ्ग्रहो वर्तते । प्रायशो ग्रन्थेऽस्मिन् काव्यं काव्यशास्त्रञ्चाधिकृत्य प्रणीता निबन्धाः सङ्कलिताः सन्ति । 'अवलोक्य मतानि सत्कवीनामवगम्य स्वधिया च काव्यलक्ष्मे'ति भामहकथनदिशा वाल्मीकि - कालिदास- भारवि-माघ-भवभूति-बाणभट्ट - श्रीहर्षप्रणीतासु रचनासु काव्यस्वरूपविषयिणी अवधारणा या च प्रायः कण्ठत उपात्तीकृता साद्येष्वेकादशनिबन्धेष्वांविष्कृताऽस्ति । रचनाकारः स्वरचनामानसूत्रं मनसि निधाय प्रवृत्तो भवति । अतः क्वचित्कण्ठतः क्वचिच्च व्यङ्ग्यभङ्ग्या स्वां रचनाविषयिणीमवधारणां व्यनक्ति । तद्ररचनासमीक्षणे नूनमेव महत्त्वमावहति । अतोऽस्यां दिशि प्रशस्तकवीनां विचारा अत्र सङ्कलिताः सन्ति । प्राक्तनेषु काव्यशास्त्राचार्येषु तत्प्राक्तनकवीनां प्रभावोऽपि निभाल्यते यस्य निरूपणमेतेषु निबन्धेषु कृतमस्ति । द्वादशतोऽष्टादशनिबन्धं. यावद् राजशेखरस्य काव्यशास्त्रीया विचारा विवेचिताः, एकोनविंशतित: सप्तविंशतितमं यावत्काव्यस्वरूपं विविधदिशा परीक्षितं समीक्षितञ्च, अष्टाविंशतितश्चरमं यावद्बहुविधा निबन्धा
इयमवधारणा
विद्यन्ते, भारतीयसंस्कृतिदृष्ट्या वा प्रणीताः । अर्वाचीनसंस्कृत- काव्यपरिचयोऽर्वाचीनकाव्यविधास्वरूपञ्चात्र चरमेषु निबन्धेषु विवेचिते वर्तेते।
प्रायश: काव्यसमीक्षणदिशा