🔄

  • भगवद्भक्तिमहात्म्यम् : Bhagavadbhaktimahatamyam (2012)
  • भगवद्भक्तिमहात्म्यम् : Bhagavadbhaktimahatamyam (2012)
  • भगवद्भक्तिमहात्म्यम् : Bhagavadbhaktimahatamyam (2012)
  • भगवद्भक्तिमहात्म्यम् : Bhagavadbhaktimahatamyam (2012)
  • भगवद्भक्तिमहात्म्यम् : Bhagavadbhaktimahatamyam (2012)

भगवद्भक्तिमहात्म्यम् : Bhagavadbhaktimahatamyam (2012)

Publisher: Rashtriya Sanskrit Sansthan
Language: Sanskrit
Total Pages: 651
Available in: Hardbound
Regular price Rs. 600.00
Unit price per
Tax included.

Description

संस्कृतवाङ्मयमहोदधेः बहूनि ग्रन्थरत्नानि प्रकाशनाभावात् नाद्यावधि लोकलोचनगोचरीभूतानि अभवन्। हस्तलेखालयेषु/पाण्डुलिपिग्रन्थसङ्ग्रहालयेषु, प्राचीनगृहेषु वा विद्यमानान् तादृशग्रन्थान् प्रकाशयितुं बहुभिर्विद्वद्भिः विविधाभिः सस्याभिश्च बहुविधप्रयासाः कृताः क्रियमाणाश्च वर्तन्ते। तादृशप्रयासेषु राष्ट्रियसंस्कृत-संस्थानस्य संस्कृतवर्षस्मृतिग्रन्थमालान्तर्गता अप्रकाशितपाण्डुलिपिग्रन्थप्रकाशनयोजना अन्यतमा।

बहुभिः स्वीयशोधोपाधिनिमित्तं सज्जीकृताः हस्तलिखित ग्रन्थविशेष-सम्पादनात्मकशोधप्रबन्धाः तत्तद्विश्वविद्यालयेषु समर्पिताः। किन्तु तादृशेषु शोध-प्रवन्धेषु बहवः हस्तलिखिता (न टङ्किताः) अप्रकाशिता एव सन्ति। राष्ट्रियसंस्कृतसंस्थाने 2003 पर्यन्तम् अनुसन्धातृभिः आहत्य 169 हस्तलिखित ग्रन्थविशेष-सम्पादनात्मक-धवन्धाः (Critical editions of Manuscripts) विद्यावारिध्युपाधये समर्पिता आसन्। (तेषु अङ्गुलिगणनीया एव सम्पादकानां वैयक्तिकप्रयासेन प्रकाशं गताः।)

एतदतिरिच्य काश्चन प्राचीनकृतयः कैश्चिद्विद्वद्भिः सम्पादिताः (शोधप्रबन्धेतराः) अपि तेषां वैयक्तिकसौकर्याभावात् प्रवृत्त्यभावाद् वा अप्रकाशिताः सन्ति। एवम् उभयविधेषु (सम्पादनात्मकशोधप्रबन्धेषु, तदितर-सम्पादितग्रन्थेषु च) अत्युत्तमान् योग्यान् चित्चा ते संस्कृतवर्षस्मृतिग्रन्थमालान्तर्गतायाम् (युगाब्दः 5101 तम वर्षं संस्कृतवर्षत्वेन भारतशासनेन उद्घोषितमासीत्। तदाचरणस्मृतिं स्थिरयितुं कल्पितायां) अकाशितपाण्डुलिपिग्रन्थप्रकाशनयोजनायां प्रकाशनीयाः इति कश्चन निर्णयः पूर्वं स्वीकृत आसीत्। तदनु अस्यां धारायाम् अद्य यावत् 17 ग्रन्थाः प्रकाशमुपनीताः । सम्प्रति अष्टादशं ग्रन्थपुष्पमेतद् विकसद्विलोक्य हर्षप्रकर्षमनुभवामि ।

'भगवद्भक्तिमाहात्म्यम्' इत्येष सम्प्रति प्रकाश्यमानोऽयं ग्रन्थः मैथिलपण्डितेन चन्द्रटनेन विरचितः। भक्तचरितवर्णनप्रधानेऽस्मिन् 150 सर्गात्मके बृहत्काये ग्रन्थे षट् सहस्र श्लोकाः सन्ति। रुचिरया सरलया पुराणशैल्या प्राचीनानां हनुमद्विभीषणादीनाम्, व्र्वाचीनानां तुलसीदास गदाधरादीनां च भक्तानां चरित्रमेतस्मिन् काव्ये वर्णितम्।