🔄

  • श्रीपरशुरामचरितम्- Sri-Parsuramacaritam of Shri Krishna Joshi (2012)
  • श्रीपरशुरामचरितम्- Sri-Parsuramacaritam of Shri Krishna Joshi (2012)
  • श्रीपरशुरामचरितम्- Sri-Parsuramacaritam of Shri Krishna Joshi (2012)

श्रीपरशुरामचरितम्- Sri-Parsuramacaritam of Shri Krishna Joshi (2012)

Publisher: Manyata Prakashan
Language: Sanskrit
Total Pages: 232
Available in: Hardbound
Regular price Rs. 550.00
Unit price per
Tax included.

Description

भूमिका

विद्याभूषणश्रीकृष्णजोशीमहाभागस्य

व्यक्तित्वं कृतित्वञ्च

अस्ति नगाधिराजहिमालयस्य कुक्ष्यन्तर्गतोत्तराखण्डप्रान्तस्य कूर्माचले (कुमाऊ) अल्मोडाख्या अतिरम्या सांस्कृतिकनगरी। अत्रैव चीनाखाननामके स्वपैतृकसदने नाटककारः श्रीकृष्णजोशीमहाभागः स्वजनिं लेभे।

जोशीत्युपाह्वश्रीकृष्णमहाभागस्य व्यक्तित्वमानुवांशिकपरिवेषाभ्यां महत् प्रभावितमासीत्। अस्य पूर्वजाः ज्योतिषशास्त्रे कर्मकाण्डे कवित्वपाण्डित्यादौ प्रख्याताश्वासन्। वंशेऽस्य भवानन्दत्रिलोचनसदृशाः श्रेष्ठाः कवयो विद्वान्सश्च बभूवुः। इत्थमस्य वंशे परम्परया गीर्वाणवाण्याः महती कृपादृष्टिश्चासीत्।

नाटककारस्य पूर्वजाः अस्य पूर्वजाः कन्नौजस्य निकटवर्ति असुन्याख्यग्रामस्य वास्तव्या भारद्वाजगोत्रिणो विप्रा ह्यासन्। कथ्यते यद् वंशस्यास्य मूलपुरुषः शुक्लास्पदीयो ज्योतिर्विद् श्रीलङ्कराजः सोमचन्द्रस्य शासनकाले तीर्थयात्रार्थं कूर्माचलमागत्यात्रैवोवास। स ज्योतिषकर्मकाण्डतन्त्रपाण्डित्यादीनां पैतृकपरम्परामपि चात्मना सहानयते स्म। सोमचन्द्रस्तस्मै शिलग्रामनामकं ग्रामं जागीररूपेण प्रददौ। ततश्च तस्य वंशजाः शिल्वालस्य जोशीति नाम्ना लोके प्रसिद्धिं गताः। कालान्तरे लङ्कराजस्यात्मजः पृथ्वीराजश्च अल्मोड़ानगरीमागत्यात्रैव न्यवसत्। वंशस्यास्य वंशक्रमश्चेत्थं प्राचलत्- लङ्कराज पृथ्वीराज कपिलराज नीलराज रुद्रदेव ब्रह्मदेव शिवदेवः। शिवदेवस्य त्रयः पुत्राश्चासन्। . जयाकरः (शिल्वालहाटवंशस्य मूलपुरुषः) . प्रभाकरः। प्रभाकरस्य वंशजा जोशीखोलेत्यस्य स्थानस्य रजांगी जोशीति नाम्ना लोके