Description
संस्कृतज्ञानां मध्ये बहुश्रुता काचित् प्रसिद्धा उक्तिः अस्ति "द्वादशभिर्वषैर्व्याकरणं श्रूयते" इति। अनया उक्त्या कदाचित् व्याकरणशास्त्रं क्लिष्टं दुर्बोधं वास्तीति मत्वा इदमुपेक्ष्यते, परं भाषायाः यथार्थं स्वरूपमवगन्तुं व्याकरणमन्तरेण न किमपि समुपयुक्तं साधनं मन्यते लोके। सत्स्वपि बहुषु व्याकरणेषु पाणिनीयं व्याकरणं संस्कृतभाषायाः सर्वाङ्गीणं सर्वशास्त्रोपकारकं विद्यते। पाणिनीये व्याकरणे मुख्यरूपेण पाणिनिप्रोक्तानि सूत्रपाठ-धातुपाठ-गणपाठ-उणादिपाठ-लिङ्गानुशासनानि, कात्यायनप्रणीतानि वार्तिकाणि महर्षिपतञ्जलिविरचितं महाभाष्यञ्चान्तर्भवन्ति ।
संसारस्य बहव्यः भाषाः तासां यथार्थं व्याकरणाभावात् विलुप्ताः किन्तु पाणिनिव्याकरणकारणतः लौकिकी वैदिकी चोभयविधा संस्कृतभाषा अद्यावधि संरक्षिता सरसा सरला बोधगम्या चास्तीत्यत्र नास्ति काचित् विप्रतिपत्तिः।
महर्षिपाणिनिना प्रोक्तः सूत्रपाठः अष्टसु अध्यायेषु विभक्तः इत्यतः लोके "अष्टाध्यायी" नाम्ना विश्रुतो वर्तते। अस्याः "अष्टकम्" इत्यपि अपरं नाम श्रूयते ।
द्वादशशताब्द्याः पूर्वं व्याकरणाध्ययनं अष्टाध्यायीसूत्रानुसारं भवति स्म किन्तु कालान्तरे प्रक्रियाग्रन्थानां प्रणयणात् अयमध्ययनक्रमः नष्टः। यद्यपि सर्वेऽपि प्रक्रियाकाराः अष्टाध्यायीं संरक्षितुं प्रक्रियाग्रन्थं प्रणीतवन्तः तथापि अनेन प्रक्रियाक्रमेण व्याकरणाध्ययनाध्यापनयोः प्राचीनः विशिष्टः सूत्रक्रमः विनष्ट एव।
प्राचीनक्रमस्य महत्त्वमालोक्य वर्तमानसमये व्याकरणशास्त्रस्य अध्ययने अध्यापने च नूतनं पुनर्जागरणं दृश्यते, यत्र विंद्वासः गुरवश्च शिष्यान् प्रक्रियाक्रमेण साकं सूत्रक्रमं विज्ञातुं प्रोत्साहयन्ति बोधयन्ति च।
अतः इदम् अनुभूतं यत् सत्स्वपि बहुषु अष्टाध्यायीसंस्करणेषु तादृशं विशिष्टं किञ्चित् संस्करणमागच्छेत् यत् कोमलमतीनां छात्राणां शोधार्थिनां यूनां किञ्च अन्येषां समेषां संस्कृतविदुषां कृते सर्वदा उपकारकं भवेत्। प्राचीनकालात् अष्टाध्याय्याः पठन-पाठनपरम्परा प्रचलिता वर्तते। अतः