🔄

  • भारतीयसंस्कृतितत्त्वविमर्शः - Bhartiya Sanskriti Tattva Vimarsha - Motilal Banarsidass author

भारतीयसंस्कृतितत्त्वविमर्शः - Bhartiya Sanskriti Tattva Vimarsha

Bhartiya Sanskriti Veda (Analitical and Criticak Aspects of Indian Cu
Publisher: Nag Publishers
Language: Sanskrit
Total Pages: 700
Available in: Hardbound
Regular price Rs. 600.00 Sale price Rs. 700.00
Unit price per
Tax included.

Description

"भारतस्य प्रतिष्ठे द्वे संस्कृतम् संस्कृति स्तथेति" वचनानुसारेण भारतीयसंस्कृतेर्महत्त्वन्तु प्रथितमेव विदुषाम्। भारतीया संस्कृतिर्वेदमूलेत्यपि न तिरोहितं विदुषाम्। विषयोऽयमतीव गभीरो वर्तते। बहुकालादेव छात्राणां कृते भारतीयसंस्कृतिविषयस्य संस्कृतभाषामुखेनाऽध्ययनेऽतीव काठिन्यमनुभूयते स्म विद्वद्भिरिति कृत्वा मयाऽयं "भारतीयसंस्कृति तत्त्वविमर्श" नामा ग्रन्थो विदुषां समक्ष प्रस्तोतुं विनिश्चितः ।

द्विविंशत्यध्यायात्मकोऽयं ग्रन्थः सरलया संस्कृतभाषया "संस्कृति" शब्द-परिभाषया संस्कृतिस्वरूपेण च साकं वैदिककालादारभ्य आधुनिक युगं यावत् विविधपक्षविवेचन पूर्वक संस्कृतेः परिचयं प्रस्तौति। अत्र विवेचिताः प्राचीन भारते नारीणां स्थानम्, मुगलानां भारतीयसंस्कृतेर्विकासे योगदानम्, ग्रीकशकादीनां योगदानम् प्रभृतयो विषया अतीव महत्त्वपूर्णाः।

प्रथमोऽध्यायः विषयप्रवेशः । अत्र विविधमतेन "संस्कृतेः" परिभाषाः संस्कृतेः स्वरूपम् धर्मलक्षणम्, प्रभृतयो विषया विवेचिताः। ततो भारतीया संस्कृतिः समुपवर्णिता। अत्र भारतीयसंस्कृतेः स्वरूपम्, भारतीयसंस्कृतेश्च वैशिष्ट्यम् प्रभृतयो विषयाः विवेचिताः ।

द्वितीयेऽध्याये देवानां स्वरूपम्, त्रयो योगाः, वैदिकसंस्कृतेः वैशिष्ट्यादयो विषया विवेचिताः ।

तृतीयेऽध्याये वैदिकसमाजस्य स्वरूपनिरूपणेन सह तात्कालिक पारिवारिक-सामाजिक-सांस्कृतिक राजनैतिकाऽऽर्थिक-धार्मिकजीवनानां वर्णनम्, वैदिककालिकी शिक्षाप्रभृतीनां विषयाणां च वर्णनं विहितम् ।