Description
चिरञ्जीविनी श्रीमती प्रतापसती सावित्री जन्मनैव उत्साहवती। श्रीमातुः श्रीमदरविन्दस्य च सेवारते मानाप्रगडकुटुम्बे उत्पन्ना नित्यसाधना विविधान् क्लेशान् ज्ञानार्थं कार्यार्थं च सहमाना वर्तते । संस्कृतभारतीसंसर्गेण संस्कृतप्रिया सती जातैषा। बहून् अनुवादग्रन्थान् विरच्य संस्कृतानुवादकर्जी स्वयं सम्भाषणकृष्यैव संस्कृताचार्य-परीक्षामपि उत्तीर्णा।
शोधकार्यमपि कृत्वा सफलां स्वकार्यदीक्षाशीलतां ख्यापितवती। नित्य संस्कृताध्यापिका चाभूत्। 'सम्भवामि युगे युगे, इति नाटिकाऽनुवादोऽपि पुनः पुनःशुध्दः कृतः अनया। अन्ते च टड्ङ्कणे मुद्रणेऽपि इतरैः कृतेषु प्रयत्नेषु विफलेष्वपि स्वयंधैराशौर्या इति । सानन्दम् अविरम्यप्रारब्धप्रयत्नाद् कृतकृत्या जाता एनामभिनन्दामि। एषा नामरूपक्रियाभिः स्वयं सावित्रीति । प्रारब्धमुत्तमगुणा न परित्यजन्ति इति निरूपितवती।
अस्मिन्नाधुनिके रूपके अपि आवश्यकी रचना पदवाक्यादिसामग्रीं सुश्रमेण साधयित्वा कृतार्था जातेति चाभिनन्दामि। संस्कृतरचनमिति कार्यं नाल्पस्य तपसः फलम्। अहं समर्थमन्योऽपि रचनाकार्येषु कुशली न जात इति ममानुभवः, एवात्रोदाहरणम्। ममैषा शिष्यतां भावयतीत्यपि मे गर्वकारणम् ।