{"product_id":"भारतीयं-दर्शनम्","title":"भारतीयं दर्शनम्","description":"\u003cp style=\"text-align: left;\"\u003eआयुष्मत्या डॉ. शशिप्रभाकुमारविदुष्या विरचितं ग्रन्थरलं 'भारतीयं दर्शनम्' मया सम्यङ् निभालितम् । वस्तुतो निबन्धानां यत् सङ्कलनमत्र कृतं तेषां समेषाम् एकत्र ग्रहणं भारतीयचिन्तनपरम्परायाः दार्शनिकदृशाऽकलनमिव नितरां विभाति तोषयति च नः चेतांसि । विषयाणां सञ्चयने तेषां प्रतिपादने च सतुरां स्फुरति ग्रन्थकर्त्याः संवित्, द्रढयति चास्माकीनामास्थां भारतीये चिन्तने । साम्प्रतिके कालेऽस्मदाचार्याणां परिपूतं चिन्तनम्, तैः प्रस्तुतीकृताश्च विमर्शाः प्रायशोऽस्माकं स्मृतिपथि न अवतरन्तीति दौर्भाग्यमेव । अतः इदं खलु परमं भागधेयं पाठकानां यद् 'दुर्व्याख्याविषमूर्च्छित' विषयाणां शास्त्रदृष्ट्या अत्र पर्यालोचनमवधानतया विहितं विदुष्या लेखिकया। इदं कथयतोऽहममन्दमानन्दं विन्दामि यद् ग्रन्थस्यास्य लेखिका पूर्वेभित्रऋषिभिः प्रकटीकृतानां पूजितविचाराणाम् अभिनवदृष्ट्याऽनुशीलनम् अस्माकं पुरतः प्रस्तौति । आशास्महे कृतिरेषा सुप्रतिष्ठिता भविष्यति ।\u003c\/p\u003e","brand":"Shashi Kumar","offers":[{"title":"Default Title","offer_id":49550635565194,"sku":"9788186700204","price":375.0,"currency_code":"INR","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0592\/8583\/1818\/files\/Screenshot2026-06-15144055.png?v=1781514685","url":"https:\/\/www.motilalbanarsidass.com\/en-us\/products\/%e0%a4%ad%e0%a4%be%e0%a4%b0%e0%a4%a4%e0%a5%80%e0%a4%af%e0%a4%82-%e0%a4%a6%e0%a4%b0%e0%a5%8d%e0%a4%b6%e0%a4%a8%e0%a4%ae%e0%a5%8d","provider":"Motilal Banarsidass","version":"1.0","type":"link"}