{"product_id":"श्रीमदानन्दबोधकृत-शाब्दनिर्णयदीपिकायाः-सम्पादनम्","title":"श्रीमदानन्दबोधकृत शाब्दनिर्णयदीपिकायाः सम्पादनम्-Shrimadanandabodhakrt Shabdanirnayadpikaayah Sampaadanam","description":"\u003cp style=\"text-align: left;\"\u003eयत्कृपालवमात्रेण मूको भवति पण्डितः । रिक्तः श्रीपतितां याति तं वन्दे श्रीहरिं परम् ॥\u003cbr\u003eवन्दे तं सिद्धिविघ्नेशं गोकर्णस्थं चतुर्भुजम् । सर्वमङ्गलदातारं सर्वधा कुलदैवतम् ॥\u003cbr\u003eवान्छितार्थप्रदातारं गुरुं मन्त्रालयाधिपम् । श्री राघवेन्द्रं यतिपं प्रणमामि मुहुर्मुहुः ॥\u003cbr\u003e१. अद्वैतवेदान्तस्येतिहासः\u003cbr\u003eअद्वैतवेदान्तेतिहासावलोकनात् प्राक् किमिहाद्वैतवेदान्तस्वरूपमित्यवश्यं ज्ञेयं भवति । अतोऽत्र पूर्वमद्वैतवेदान्तस्वरूपं प्रतिपाद्यते ।\u003cbr\u003eपरमकारुणिको भगवान् परमेश्वरः स्वस्वकर्मानुगुण्येन सुखदुःखभाजः संसाराम्बुधौ निमग्नाञ्जनानुद्दिधीर्षुरनेका विद्याः प्रवर्तयामास, \"ईशानः सर्वविद्यानामीश्वरः सर्वभूतानामि\" ति श्रुतेः । विद्याश्च---\u003cbr\u003eअङ्गानि वेदाश्वत्वारो मीमांसा न्यायविस्तरः । धर्मशास्त्रं पुराणं च विद्या होताश्चतुर्दश ।। इति ।\u003cbr\u003eविष्णुपुराणे प्रदर्शिताः । प्रदर्शितविद्यानाम्मध्ये मीमांसा पुनः द्विविधा-कर्ममीमांसा शारीरकमीमांसा चेति । तत्र शारीकमीमांसा श्रीबादरायणाचार्यकृता चतुर्लक्षणी । अस्याः शारीरकमीमांसाया उपरि श्रीशङ्कराचार्या; श्रीरामानुजाचार्याः, श्रीमध्वाचार्याः अन्येऽपि बहवः आचार्या भाष्याणि प्रबबन्धुः ।\u003c\/p\u003e","brand":"Dr. Prabha Prasad","offers":[{"title":"Default Title","offer_id":47125433352330,"sku":null,"price":450.0,"currency_code":"INR","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0592\/8583\/1818\/files\/Shrimadanandabodhakrt_Shabdanirnayadpikaayah_Sampaadanam.jpg?v=1759562720","url":"https:\/\/www.motilalbanarsidass.com\/en-us\/products\/%e0%a4%b6%e0%a5%8d%e0%a4%b0%e0%a5%80%e0%a4%ae%e0%a4%a6%e0%a4%be%e0%a4%a8%e0%a4%a8%e0%a5%8d%e0%a4%a6%e0%a4%ac%e0%a5%8b%e0%a4%a7%e0%a4%95%e0%a5%83%e0%a4%a4-%e0%a4%b6%e0%a4%be%e0%a4%ac%e0%a5%8d%e0%a4%a6%e0%a4%a8%e0%a4%bf%e0%a4%b0%e0%a5%8d%e0%a4%a3%e0%a4%af%e0%a4%a6%e0%a5%80%e0%a4%aa%e0%a4%bf%e0%a4%95%e0%a4%be%e0%a4%af%e0%a4%be%e0%a4%83-%e0%a4%b8%e0%a4%ae%e0%a5%8d%e0%a4%aa%e0%a4%be%e0%a4%a6%e0%a4%a8%e0%a4%ae%e0%a5%8d","provider":"Motilal Banarsidass","version":"1.0","type":"link"}