{"product_id":"सनातनधर्मे-योगदान्","title":"सनातनधर्मे योगदान्","description":"\u003cp style=\"text-align: left;\"\u003eविदितमेव तत्र भवतामास्तिकजनानां धर्मधूरीणानां यदिह जगतीतले चतुरशीतिलक्षयोनिषु जन्मपरम्परामनुभूयानेक जन्मार्जितपुण्यप्रभावैर्मनुष्य शरीरमासादयति जीवलोकः । तदुक्तम् - कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् । इति। तदिदं मनुष्यशरीरं लब्ध्वाऽपि नैव सर्वोऽपि जीवलोकः जन्मपरम्परामनुभवन् दुःखसागरमुत्तरीतुं प्रभवति, किन्तु तत्राधिकतराः पुनरपि ता एव चतुरशीतिलक्षयोनिषु जन्मपरम्परा अनुभवितुं प्रवर्तते। तादृग्विधे च वैषम्ये नान्यदुपलभ्यते मूलम्, ऋते पुण्यपापयोः। पुण्यपापयोश्च प्राणिकर्तृकं कर्म एव मूलमिति।\u003c\/p\u003e\n\u003cp style=\"text-align: left;\"\u003eकिं कर्म पुण्यजनकं किञ्च पापजनकमिति गवेषणीयम्। तत्र च तद्बोधको वेद एवेति। इदानीमस्माकं देशे धर्मशब्दः सम्प्रदायशब्दश्च विवादस्य विषयः जातः। किमत्र कारणं न जाने परन्तु धर्म विना सामाजिकानां व्यवहारः असम्भवः । मनुष्यस्यासाधारणो धर्मः मनुष्यता तया विहीनः पशुः असुरो वा। अनेन ज्ञायते सर्वेषु वस्तुषु पदार्थेषु च सामान्येन एकः, असाधारणो धर्मः भवत्येव। येन धर्मेण तद्वस्तुनः अस्तित्वं लोके स्वीक्रियते। अतः धर्मः सर्वैः सेवनीयः धारणीयश्च। आनन्दद्भाष्यानुसारं धर्मस्य लक्षणम् - धर्मो नाम स्ववर्णाश्रमाचारानुष्ठानजन्यः पुण्यक्षालितः ।\u003c\/p\u003e","brand":"Mukesh Dagar","offers":[{"title":"Default Title","offer_id":49410977792138,"sku":"9788195151172","price":1125.0,"currency_code":"INR","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0592\/8583\/1818\/files\/hbd619.webp?v=1778484046","url":"https:\/\/www.motilalbanarsidass.com\/en-us\/products\/%e0%a4%b8%e0%a4%a8%e0%a4%be%e0%a4%a4%e0%a4%a8%e0%a4%a7%e0%a4%b0%e0%a5%8d%e0%a4%ae%e0%a5%87-%e0%a4%af%e0%a5%8b%e0%a4%97%e0%a4%a6%e0%a4%be%e0%a4%a8%e0%a5%8d","provider":"Motilal Banarsidass","version":"1.0","type":"link"}