{"product_id":"समासरत्नम्-samasaratnam","title":"समासरत्नम् - Samasaratnam","description":"\u003cp style=\"text-align: left;\"\u003eसमासशब्दस्य निष्पत्तिः समुपसर्गपूर्वकाद् अस् धातोः घञ् प्रत्ययेन (सम्+अस्+घञ्) भवति। सिद्धान्तचन्द्रिकाकार आह नाम्नामन्वये सति समासः' अर्थात् प्रथमान्तादीनां पदानां पदयोर्वाऽन्वये सति यो विधिः स समासः। पदस्यास्य विग्रहस्त्वित्थम्- समसनं समासः। सम्पूर्वकाद् अस्यतेर्भावे घञ्।\u003c\/p\u003e\n\u003cp style=\"text-align: left;\"\u003eअनेकस्य पदस्य एकपदीभवनमित्यर्थः। भावे (२.१.३) इति सूत्रेण भावार्थे घञ् प्रत्यये स्वीकृते सत्यस्य व्युत्पत्तिः समसनं समास इति प्रथितम्। अकर्तरि च कारके संज्ञायाम् (३.३.१८) इत्यनेन सूत्रेण कर्मणि प्रत्ययविधानेन समस्यत अनेकं पदम् इति व्युत्पत्तिः। हलश्च (३.३.१९) इति सूत्रेण अधिकरणे घञ् प्रत्ययविहिते समस्यते अस्मिन् इति समासः। इत्थं त्रिधा समासशब्दो निष्पद्यते।\u003c\/p\u003e\n\u003cp style=\"text-align: left;\"\u003eसमसनं समास अर्थात् संक्षेपीकरणं समासः, अतः समासस्यार्थो भवति संक्षेपी-करणमिति। तत्संक्षेपीकरणं विभक्तिलोपपूर्वकं संसाध्यते।\u003c\/p\u003e\n\u003cp style=\"text-align: left;\"\u003eअतः परस्परसमर्थसाकाङ्क्ष-पदयोः पदानां वा प्रक्रियाविशेषेण सम्पाद्यमानं यत्कर्म येनैकपदीभवनं संसाध्यते तत्समासो निगद्यते। महर्षिपाणिनिः अष्टाध्याय्यां 'प्राक्कडारात्समासः' (२.१.३) सूत्रादारभ्य 'कडाराः कर्मधारये' (२.२.३८) सूत्रपर्यन्तं दशाधिकशतसूत्रेषु (११०) समासत्वसम्पादकानां विशेषनियमानामुल्लेखम् अकरोदिति।\u003c\/p\u003e\n\u003cp style=\"text-align: left;\"\u003eनिष्कर्षेण कथ्यते यद् अनेकेषु पदेषु ऐक्यसंपादनम्, संक्षेपीकरणम्, समसनम्, संक्षेपणम्, परस्परसाकाङ्क्षपूर्वोत्तरपदानां संक्षेपणपूर्वकमैक्यसंपादनं वा समासः। यद्यपीयं समासवृत्तिः 'समर्थः पदविधिः' इति शास्त्रानुशासनात् समर्थपदानां समर्थपदैः साकमेव भवति। तथाऽपि कुत्रचिद् असमर्थपदेष्वपि समासो दृश्यते। तद्यथा-असूर्य पश्या राजदारा, अपुनर्गेयाः सामेत्यादयः।\u003c\/p\u003e","brand":"VED PRAKASH MISHRA","offers":[{"title":"Default Title","offer_id":49410905145482,"sku":"9788195383214","price":1192.5,"currency_code":"INR","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0592\/8583\/1818\/files\/Samasaratnam.webp?v=1778480145","url":"https:\/\/www.motilalbanarsidass.com\/en-us\/products\/%e0%a4%b8%e0%a4%ae%e0%a4%be%e0%a4%b8%e0%a4%b0%e0%a4%a4%e0%a5%8d%e0%a4%a8%e0%a4%ae%e0%a5%8d-samasaratnam","provider":"Motilal Banarsidass","version":"1.0","type":"link"}