Description
आर्यासप्तशत्याख्यमिदं गीतिकाव्यं श्रृङ्गारकाव्यम्मुक्तककाव्यं वेति नाम्नाऽपि व्यपदिश्यते, एवञ्चेयं रचना सरसगीतिविधा-परम्परायामतितरां नितराञ्च सुप्रतिष्ठिता चकास्ति । सप्तशत्यामस्यामार्याच्छन्दःसु सुगुम्फितानि सप्तशतशृङ्गाररसपरकाणि ललितमुक्तकानि पद्यानि अकारादिवर्णानुक्रमेण राराजन्ते। विराजते च मसृणासरसविशदा सहृदयहृदयहारिणी भाषा। अपिचाऽत्र प्रेमिप्रेमिकयोरन्तस्तलोत्थललितकोमल-कल्पनाकलापः, सुकुमारभावभङ्गितरङ्गाः, पूर्णपरिपक्त्रिमतया परिणताः प्रतिभान्ति। ग्रामीणरमणीनामुद्दामशृङ्गारभावना मुग्धकारिणी सहजकीडा चाऽऽयासेन विनैवाऽतिसाफल्येन कविनामुना व्यधायि।
शृङ्गारकविशेखरीभूतो गोवर्धनाचार्योऽयं स्वजन्मपरिग्रहेण जनकजाजन्मभूजनपदमनुजग्राह एवञ्च बङ्गाधिपस्य कनसोननरेशस्य कैस्त षोडशोत्तरैकादशमित-शकाब्दभवस्य राजसभायामासीदित्यत्र श्रीलक्ष्मणसेनस्य सर्वेषामैतिह्यवेतृणामैकमत्यम् ।
आर्यासप्तशत्युपरि म.म. सचलमिश्रा-परनाम्ना पण्डितभवानीनाथेन प्रणीता टीका रसप्रदीपिकाप्यत्र राजते ग्रन्थेन साकम्। सा च चेतोहारिणी प्रौढतमा सुविस्तरा सत्यपि नातिगूढा । मूलकविवर्णितां सामान्यमपि वस्तुस्थितिं व्यञ्जनादिवृत्तिसाहाय्येन चमत्कृत्या शैल्या वैदग्धयुतया च रीत्या व्याख्याति व्याख्याता।
श्रीमती रम्भादेवी चास्य जननी जनकश्च रघुदेवापर- नामा इयारमिश्राख्यो ब्रह्मतेजस्समन्वितो छान्दसीयो भूसुरः। मिथिलायामनन्तपुरापराभिधं (सरिसब) पाहिग्राममयमष्टादशशतके स्वजनुषाऽलञ्चकारेति ।