🔄

  • पंचलक्षणि सिंहव्याघ्रलक्षणे च-Panchlakshni Sinhavyaghralakshne cha (2018)

पंचलक्षणि सिंहव्याघ्रलक्षणे च-Panchlakshni Sinhavyaghralakshne cha (2018)

Publisher: Rashtriya Sanskrit Vidyapeetha
Language: Sanskrit
Total Pages: 237
Available in: Hardbound
Regular price Rs. 500.00
Unit price per
Tax included.

Description

आमुखम्

१. न्यायशास्त्रस्य प्राचीननवीनरूपेण विभागः

'काणादं पाणिनीयं च सर्वशास्त्रोपकारकम्' इति किञ्चित् आभाणकं विदितमेव सर्वेषाम् । अत्र काणादशब्दः गोतमीयन्यायदर्शनस्याप्युपलक्षणम् । न्यायवैशेषिकदर्शनयोः पाणिनीयव्याकरणस्य च सर्वशास्त्रोपकारकत्वं तत्तच्छास्त्राध्येतॄणामानुभविकमेव । तत्रापि न्यायशास्त्रे येषां गाढः परिचयो न विद्यते ते इतरशास्त्राण्यपि यथावन्न बोढुं शक्नुवन्ति । तत्र निदानं प्रायः सर्वेऽपि शास्त्रग्रन्थाः पुरातनाः विशिष्य नवीनाश्च न्यायशास्त्रादृतया शैल्यैव निरमीयन्तेति । तदेतत् न्यायशास्त्रं प्राचीनं नवीनं चेति द्वेधा विभज्य व्यवहरन्ति । गङ्गेशोपाध्यायविरचितात् तत्त्वचिन्तामणेः प्राक्तनाः सर्वेऽपि न्यायग्रन्थाः प्राचीनन्यायपदेन, तत्त्वचिन्तामणिमारभ्य ततोऽर्वाक्तनाः सर्वेऽपि न्यायग्रन्थाः नवीनन्यायपदेन च व्यपदिश्यन्ते । एवंविधो व्यपदेशभेदः गङ्गेशोपाध्यायस्यापि संमत इति तत्र तत्र जरन्नैयायिकपदेन जयन्तभट्टादीन् निर्दिशता तेन संसूच्यते । तत्त्वचिन्तामणेः प्रादुर्भावानन्तरं सर्वेऽपि तदीयप्रतिपादनफक्किकया समाकृष्टचेतसः प्राचीनग्रन्थेष्वौदासीन्यं बिभ्रतः तद्ग्रन्थपठनव्याख्यानादिष्वेव व्याप्रियन्तेति स्पष्टमिदं चरित्रविमर्शकानाम् । किं बहुना । न्यायेतरशास्त्रकारा अपि नव्यन्याय-रीत्यैव सपरिष्कारं स्वशास्त्रग्रन्थान् निरमासुरिति स्पष्टमेवेदं तत्तच्छास्त्रग्रन्थान् परामृष्टवताम्। तस्यास्य तत्त्वचिन्तामणेः शताधिकानि व्याख्यानान्युपव्याख्यानानि च विलसन्ति । तेषु कानिचित् पठनपाठनसम्प्रदाये वर्तन्ते प्रकाशमुपगतानि च । बहूनि तु हस्तलिखितकोशरूपेण तत्र तत्र गृहेषु पुस्तकशालासु च सुखं स्वपन्तीत्यास्तामेतत् ।

२. तत्त्वचिन्तामणिस्तद्व्याख्यानानि च

तत्र तत्त्वचिन्तामणेः व्याख्यानेषु निशितमतिना संक्षिप्तोक्तावतिदक्षेण रघुनाथशिरोमणिना निर्मिता दीधितिः सुप्रसिद्धा। रघुनाथस्य दीधितिकार इति प्रसिद्धिरेव द्योतयति दीधितेर्वैभवम् । दीधितेः प्राक् पक्षधरमिश्रविरचितः आलोकः, रुचिदत्तमिश्रकृतः प्रकाशः इत्यादीनि बहूनि व्याख्यानान्यवतीर्णानि