Description
आयुष्मत्या डॉ. शशिप्रभाकुमारविदुष्या विरचितं ग्रन्थरलं 'भारतीयं दर्शनम्' मया सम्यङ् निभालितम् । वस्तुतो निबन्धानां यत् सङ्कलनमत्र कृतं तेषां समेषाम् एकत्र ग्रहणं भारतीयचिन्तनपरम्परायाः दार्शनिकदृशाऽकलनमिव नितरां विभाति तोषयति च नः चेतांसि । विषयाणां सञ्चयने तेषां प्रतिपादने च सतुरां स्फुरति ग्रन्थकर्त्याः संवित्, द्रढयति चास्माकीनामास्थां भारतीये चिन्तने । साम्प्रतिके कालेऽस्मदाचार्याणां परिपूतं चिन्तनम्, तैः प्रस्तुतीकृताश्च विमर्शाः प्रायशोऽस्माकं स्मृतिपथि न अवतरन्तीति दौर्भाग्यमेव । अतः इदं खलु परमं भागधेयं पाठकानां यद् 'दुर्व्याख्याविषमूर्च्छित' विषयाणां शास्त्रदृष्ट्या अत्र पर्यालोचनमवधानतया विहितं विदुष्या लेखिकया। इदं कथयतोऽहममन्दमानन्दं विन्दामि यद् ग्रन्थस्यास्य लेखिका पूर्वेभित्रऋषिभिः प्रकटीकृतानां पूजितविचाराणाम् अभिनवदृष्ट्याऽनुशीलनम् अस्माकं पुरतः प्रस्तौति । आशास्महे कृतिरेषा सुप्रतिष्ठिता भविष्यति ।