🔄

  • शशिकरनिकर:-Shashikarnikar (1990)
  • शशिकरनिकर:-Shashikarnikar (1990)
  • शशिकरनिकर:-Shashikarnikar (1990)
  • शशिकरनिकर:-Shashikarnikar (1990)
  • शशिकरनिकर:-Shashikarnikar (1990)

शशिकरनिकर:-Shashikarnikar (1990)

Publisher: Parimal Publications
Language: Sanskrit
Total Pages: 86
Available in: Hardbound
Regular price Rs. 300.00
Unit price per
Tax included.

Description

किं वच्मि

यन्मया वक्तव्यमासीत् तदुक्तमागामिपृष्ठेषु कवितासु । कविरात्मानं परितो जगद् दृष्ट्वा तद्विषये सहजं स्वभावान् शब्दैरुन्मीलयति । तदा तस्य काव्यं पद्यबद्धं वा स्याद् गीतबद्धं वा स्याच्छन्दोमुक्तं वा स्यात् न तत्त्र कश्चिद् भेदः । काव्यं तावदस्ति भावरूपम् । न ज्ञायते, कदा, कस्मिन् क्षणे के मनसि सुप्ता भावाः केषु शब्देषु केन विधिनाऽवकाशं लभन्ते । कदाचिद् वायोरेकेन तरङ्गेण कविरानन्दितो वोद्विग्नो वा किञ्चिद् गातुं लेखितुं वा प्रेर्यंते, कदाचिद् विशिष्टायां मनःस्थितौ सुप्तोत्थितो वा, केवलमुपविश्य वा कार्यनिरतो वा किञ्चिच्चिन्तयति भविष्यति च काले तेन चिन्तनेनानाया-समेव प्रणोदितोऽसौ काश्चन पङ्ङ्क्तीविरचयति । विचित्रं खल्वेतद् भावना-जगत् । विचारो बहुवारं तत्कालमेवावसरं न लभते, परन्तु स मनसि सुप्त-स्तिष्ठति, कालान्तरे पुनरसावात्मानं कयापि विधया प्रकाशयति । स्वयं च रचयितापि न जानाति किमाधारा भावाः शब्देषु परिणता इति । परन्त्वेतदत्त्र स्मर्तव्यं यत् कोऽपि दृश्यमानजगतोऽनुभूयमानभावेभ्यश्चात्मानं विच्छेद्य काव्यं कर्तुं न शक्नोति । बहुवारं मनसि किमप्येकं वाक्यमायाति, सपद्येव कालेन वा तत् पूर्णकवितारूपेण परिणमति ।

तृतीयमिमं कवितासंग्रहं सहृदयानां पुरस्तादुपस्थापयतो मे महान् हर्षप्रकर्षः । अत्र पञ्चाशत्पञ्चचामरपद्यात्मिका सागरलङ्घनम् इति कविता विशेषोल्लेखमर्हति । रामस्य सागरलङ्घने ऽहं कृच्छ्रपतितस्य राष्ट्रस्य विपल्लङ्घनं तदनन्तरं च राष्ट्रोन्नतिप्राप्तिमिव सीताप्राप्ति पश्यामि ।

संस्कृतेन रचना खलु व्यसनमिव मे संस्कृतस्य स्थितिर्भाविनि काले कीदृशी भविष्यतीति चिन्ताविषयः । तथापि मनोभावा रोद्धं न शक्यन्ते । केचित् कदाचित्तु पठिष्यन्त्येव, आस्वादयिष्यन्ति च। अथवा स्वान्तःसुखायैव लिख्यत इत्युच्यताम् ।

काव्यरचनायां येषां श्रद्धेयानां गुरुवर्याणां डॉ० सत्यव्रतशास्त्रिणां प्रेरणा सततं प्राप्यते, तान् सादरं प्रणमामि,

सहृदयानां वशंवदः, कृष्णलालः