🔄

  • श्री आचारांग-सूत्रम्-Shri Aacharang-Sutram (1997)
  • श्री आचारांग-सूत्रम्-Shri Aacharang-Sutram (1997)
  • श्री आचारांग-सूत्रम्-Shri Aacharang-Sutram (1997)
  • श्री आचारांग-सूत्रम्-Shri Aacharang-Sutram (1997)

श्री आचारांग-सूत्रम्-Shri Aacharang-Sutram (1997)

Publisher: Shri Jain Shwetambar Murtipujak Sangh
Language: Sanskrit
Total Pages: 116
Available in: Hardbound
Regular price Rs. 300.00
Unit price per
Tax included.

Description

श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)

प्रणम्य सर्वतीर्थेशान् वीरं गुरूंश्च देशकान् ।

आचाराङ्गस्य संस्कुर्वेऽक्षरगमनिकां श्रुतात् ॥

प्रथमः श्रुतस्कन्धः

॥ अथ शस्त्रपरिज्ञाख्यं प्रथममध्ययनं ॥

श्री सुधर्मा जम्बूमाचष्टे यथा :

सुयं मे आउसं ! तेणं भगवया एवमक्खायं इहमेगेसिं णो सन्ना भवई ॥१॥

श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातम् इह-संसारे एकेषां नो संज्ञा-ज्ञानं भवति । 'आमुसंतेण' 'आवसंतेणं' चेति पाठान्तरद्वयमाश्रित्य -आमृशता सेवमानेन स्पृशता भगवत्पादारविन्दम् आवसता च तदन्तिके इत्यर्थः । अनेन गुरुकुलवासः प्रथमाचार उपदिष्ट इति ।

निषिद्धसंज्ञामाश्रित्याऽऽह-

तं जहा - पुरत्थिमाओ वा दिसाओ आगओ अहमंसि, दाहिणाओ वा दिसाओ आगओ अहमंसि, पच्चत्थिमाओ वा दिसाओ आगओ अहमंसि, उत्तराओ वा दिसाओ आगओ अहमंसि, उड्ढाओ वा दिसाओ आगओ अहमंसि, अहोदिसाओ वा आगओ अहमंसि अण्णयरीओ वा दिसाओ अणुदिसाओ वा आगओ अहमंसि, एवमेगेसिं णो णायं भवति ॥२॥

तद्यथा पूर्वस्या वा दिशात आगतोऽहमस्मि, दक्षिणस्या वा दिशात आगतोऽहमस्मि, पश्चिमाया वा दिशात आगतोऽहमस्मि, उत्तरस्या वा दिशात आगतोऽहमस्मि, ऊर्ध्वाया वा दिशात आगतोऽहमस्मि, अधो दिशातो वाऽऽगतोऽहमस्मि, अन्यतरस्या वा दिशातः, अनुदिशातो वाऽऽगतोऽहमस्मि । एवमेकेषां नो ज्ञातं भवतीति ।। २ ।।

न केवलमेषैव संज्ञा नास्ति, अपराऽपि नास्तीति सूत्रकृदाह-

अत्थि मे आया उववाइए, नत्थि मे आया उववाइए, के अहं आसी ? के वा इओ चुए इह पेच्चा भविस्सामि ? ॥३॥

श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)