🔄

  • सभ्याभरणम्: Sabhyabharanam (1989)
  • सभ्याभरणम्: Sabhyabharanam (1989)
  • सभ्याभरणम्: Sabhyabharanam (1989)
  • सभ्याभरणम्: Sabhyabharanam (1989)
  • सभ्याभरणम्: Sabhyabharanam (1989)

सभ्याभरणम्: Sabhyabharanam (1989)

Publisher: Sampurnanand Sanskrit University
Language: Sanskrit
Total Pages: 173
Available in: Hardbound
Regular price Rs. 500.00
Unit price per
Tax included.

Description

अवतरणिका

साहित्यशास्त्रं नाम काव्यादिकलापरिशीलनालोचनरचनाप्रधानं शास्त्रम् । यथा आत्मनः जगतश्च स्वरूपपरिचायकत्वाद दर्शनस्य शास्त्रत्वं तथैव शब्दरूपस्य भगवतः परिचायकत्वाद् व्याकरणस्य साहित्यस्य च शास्त्रत्वम् । तदाह चाक्यपदीये-

अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थंभावेन प्रक्रिया जगतो यतः ।।

पुराणेऽपि -

काव्यालापर्यांश्च ये केचित् गीतकान्यखिलानि च । शब्दमूतिधरस्यैते विष्णोरंशा महात्मनः ।।

भागवतेऽपि -

स एव जीवो विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः । मनोमयं सूक्ष्ममुपेत्य रूपं मात्रा स्वरा वर्ण इति प्रदिष्टः ।।

इत्थं व्याकरणशास्त्रस्येव साहित्यस्यापि शास्त्रत्वम् । 'रसो वै सः' इत्यनेन वेदवाक्येन रसस्य ब्रह्मरूपता रसात्मकवाक्यस्य काव्यत्वात् समग्रस्य साहित्यशास्त्रस्य ब्रह्मविचारकत्वं सिद्धयति ।

साहित्यशास्त्रं च द्वेधा प्रवर्तते लक्ष्यग्रन्थ लक्षणग्रन्थात्मना । लक्षण-ग्रन्थेषु साहित्यस्य शास्त्रत्वसाधनम्, लक्ष्यग्रन्थनिर्माणप्रकारः तेषां भेदाश्च वणिताः ।

लक्ष्यग्रन्थाश्च - काव्य-महाकाव्य-नाटक-नाटिका-प्रकरण-भाण-डिम-प्रहसन-सुभाषितादिभेदेन बहुधा आम्नाताः । एषु चम्पू-कथा-आख्यायिका-आख्यानकभेदेन गद्यकाव्यानि गद्यपद्यमयानि च आम्नातानि ।