Description
जयपुरराज्यस्य सुप्रसिद्धाश्चिकित्सकचूडामणयो दादूपथपरिव्राजका आयुर्वेदमार्तण्डाः श्रीलक्ष्मीरामस्वामिमहाभागा १९८१ तमविक्रमवत्सरस्य विजयदशम्यां [ १९३२ तमख्रिस्टवत्सरस्य अक्टूबरमासस्य सप्तदशतारिकायाम्] निरीक्षकसंघ (ट्रस्ट) मेकं नियम्य दशसहस्राधिकलक्षानुमितमुद्राणां राजकीयसुरक्षितधनं (गवर्नमेण्टसैक्यूरीटीज़), पादोनलक्षद्वय मितमुद्राणां च गृहारामादिकं तदधीनमकार्षुः । राजरक्षितधनस्य वृद्धिः (कुसीदम्), गृहादीनां भाटकं च प्रतिवर्ष ७०००) सप्तसहस्रमुद्रामितं भवति । स्वामिमहाभागानामुद्देश्यानुसार मौषधालयातुरालय विद्यालयादीनां संरक्षणे, निर्धनविद्यार्थिनां वृत्त्यादिना साहाय्यसंपादने, दादूसंप्रदायस्यायुर्वेदप्रन्थानां च प्रकाशनादिष्वनेकधर्मकार्येषु विद्योन्नतिकार्येषु च सोऽयमायो व्ययति ।
आयुर्वेदद्वारैव श्रीमद्भिः खामिमहाभागैर्धनमिदमर्जितमित्यायुर्वेदस्यैवोन्नतिर्विशिष्या-भीष्टा तेषाम् । संघाधिकृते निधि (फण्ड) धने विंशतिसहस्रमुद्राः खामिभिरेतदुद्देश्येन पृथङ्गियमिताः । यदस्य निघेवृद्धि (सूद) द्रव्येण आयुर्वेदसंबन्धिनवीन पुस्तकनिर्मातृभ्यो विद्वद्भ्यः पुरस्काररूपेण साहाय्यं दीयेत, प्राचीनार्वाचीनानां चामुद्रितानामायुर्वेदप्रन्थानां च प्रकाशनमनुष्ठीयेत । अनेनैव द्रव्येण सोऽयं ग्रन्थः [ श्रीचक्रपाणिदत्तविरचितभानु-मतीव्याख्यासमेतं सुश्रुतसंहितायाः सूत्रस्थानम्] मुद्रापयित्वा विदुषां सेवायासुपस्था-प्यते । ग्रन्थोऽयं बम्बईस्थसुप्रसिद्ध वैद्यराजानामायुर्वेदमार्तण्डश्रीयुत 'वैद्य यादवजी त्रिविक्रमजी आचार्य' महोदयानामनुग्रहेण लण्डननगरस्थ इण्डिया ऑफिस' पुस्तकालयतः समवापि । ग्रन्थस्यास्य विविष्य परिचयः खामिमहाभागानां प्रियतम-डहद्भिर्भारतविख्यातै 'र्महामहोपाध्याय कविराज श्रीगणनाथसेनसरखती'-महोदयैः प्रणीतगवेषणापूर्ण परमोपयोगि भूमिका ऽवलोकनात् प्राप्येत
श्रीमन्तो यादवजीमहोदयाः खामिमहाभागानामत्यन्तं प्रियाः सुहृदः । खामिमहा-नागैः संघपत्रे (ट्रस्टपत्रे) तदिदं विशिष्य निर्दिष्टं यत्- यावज्जीवं श्रीयादवजीमहा-मागानामेवानुमत्यां प्रन्थाः प्रकाश्येरन् । महानुभावैरेभिरायुर्वेदग्रन्थोद्धारे खीयं समस्तमायुर्विनियुञ्जद्भिर्यत्किल सुमहत् कार्यमनुष्ठितं तदिदं वैद्यजगति सर्वेषां विदितमेव । इह तस्य विशिष्य परिचयो दिनकरस्य कृते वीपदर्शनमिव । निरीक्षकसंघस्य मन्त्रिपद-मधितिष्वञ्जहमेतस्य ग्रन्थस्य प्राप्तौ, संशोधने, मुद्रापणे, चासीमपरिश्रमाय सरुचिखीया-त्यसमयविनियोगाय च कोटिशो धन्यवादानर्पयामि । श्रीमतामेवानुग्रहेणाव्य