{"product_id":"अष्टाध्यायीसूत्रपाठः","title":"अष्टाध्यायीसूत्रपाठः","description":"\u003cp style=\"text-align: left;\"\u003eसंस्कृतज्ञानां मध्ये बहुश्रुता काचित् प्रसिद्धा उक्तिः अस्ति \"द्वादशभिर्वषैर्व्याकरणं श्रूयते\" इति। अनया उक्त्या कदाचित् व्याकरणशास्त्रं क्लिष्टं दुर्बोधं वास्तीति मत्वा इदमुपेक्ष्यते, परं भाषायाः यथार्थं स्वरूपमवगन्तुं व्याकरणमन्तरेण न किमपि समुपयुक्तं साधनं मन्यते लोके। सत्स्वपि बहुषु व्याकरणेषु पाणिनीयं व्याकरणं संस्कृतभाषायाः सर्वाङ्गीणं सर्वशास्त्रोपकारकं विद्यते। पाणिनीये व्याकरणे मुख्यरूपेण पाणिनिप्रोक्तानि सूत्रपाठ-धातुपाठ-गणपाठ-उणादिपाठ-लिङ्गानुशासनानि, कात्यायनप्रणीतानि वार्तिकाणि महर्षिपतञ्जलिविरचितं महाभाष्यञ्चान्तर्भवन्ति ।\u003c\/p\u003e\n\u003cp style=\"text-align: left;\"\u003eसंसारस्य बहव्यः भाषाः तासां यथार्थं व्याकरणाभावात् विलुप्ताः किन्तु पाणिनिव्याकरणकारणतः लौकिकी वैदिकी चोभयविधा संस्कृतभाषा अद्यावधि संरक्षिता सरसा सरला बोधगम्या चास्तीत्यत्र नास्ति काचित् विप्रतिपत्तिः।\u003c\/p\u003e\n\u003cp style=\"text-align: left;\"\u003eमहर्षिपाणिनिना प्रोक्तः सूत्रपाठः अष्टसु अध्यायेषु विभक्तः इत्यतः लोके \"अष्टाध्यायी\" नाम्ना विश्रुतो वर्तते। अस्याः \"अष्टकम्\" इत्यपि अपरं नाम श्रूयते ।\u003c\/p\u003e\n\u003cp style=\"text-align: left;\"\u003eद्वादशशताब्द्याः पूर्वं व्याकरणाध्ययनं अष्टाध्यायीसूत्रानुसारं भवति स्म किन्तु कालान्तरे प्रक्रियाग्रन्थानां प्रणयणात् अयमध्ययनक्रमः नष्टः। यद्यपि सर्वेऽपि प्रक्रियाकाराः अष्टाध्यायीं संरक्षितुं प्रक्रियाग्रन्थं प्रणीतवन्तः तथापि अनेन प्रक्रियाक्रमेण व्याकरणाध्ययनाध्यापनयोः प्राचीनः विशिष्टः सूत्रक्रमः विनष्ट एव।\u003c\/p\u003e\n\u003cp style=\"text-align: left;\"\u003eप्राचीनक्रमस्य महत्त्वमालोक्य वर्तमानसमये व्याकरणशास्त्रस्य अध्ययने अध्यापने च नूतनं पुनर्जागरणं दृश्यते, यत्र विंद्वासः गुरवश्च शिष्यान् प्रक्रियाक्रमेण साकं सूत्रक्रमं विज्ञातुं प्रोत्साहयन्ति बोधयन्ति च।\u003c\/p\u003e\n\u003cp style=\"text-align: left;\"\u003eअतः इदम् अनुभूतं यत् सत्स्वपि बहुषु अष्टाध्यायीसंस्करणेषु तादृशं विशिष्टं किञ्चित् संस्करणमागच्छेत् यत् कोमलमतीनां छात्राणां शोधार्थिनां यूनां किञ्च अन्येषां समेषां संस्कृतविदुषां कृते सर्वदा उपकारकं भवेत्। प्राचीनकालात् अष्टाध्याय्याः पठन-पाठनपरम्परा प्रचलिता वर्तते। अतः\u003c\/p\u003e","brand":"Kundan Kumar","offers":[{"title":"Hardcover","offer_id":49413563285642,"sku":"9788195383290","price":795.0,"currency_code":"INR","in_stock":true},{"title":"Paperback","offer_id":49413563318410,"sku":"9788195383290","price":225.0,"currency_code":"INR","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0592\/8583\/1818\/files\/Screenshot2026-05-11162420_a29935d0-36e2-45f5-b581-35a89190a325.png?v=1778496924","url":"https:\/\/www.motilalbanarsidass.com\/products\/%e0%a4%85%e0%a4%b7%e0%a5%8d%e0%a4%9f%e0%a4%be%e0%a4%a7%e0%a5%8d%e0%a4%af%e0%a4%be%e0%a4%af%e0%a5%80%e0%a4%b8%e0%a5%82%e0%a4%a4%e0%a5%8d%e0%a4%b0%e0%a4%aa%e0%a4%be%e0%a4%a0%e0%a4%83","provider":"Motilal Banarsidass","version":"1.0","type":"link"}