Description
अस्ति तावत् भारतवर्षेषु काव्यप्रकाशस्य महती ख्यातिः । ध्वनिसंप्रदायस्य प्रतिनिधिभूतग्रन्थः काव्यप्रकाशः भारतवर्षस्य सर्वेषु विश्वविद्यालयेषु पाठ्यक्रमे निर्धारितः। प्राचीनपरम्परायां गुरुमुखादेव ग्रन्थस्य पाठस्य विधानम् आसीत्। ग्रन्थस्य प्रथमाध्ययनकाले संस्कृतटीकायाः उपयोगो न भवति स्म। यदा छात्रः प्रौढो भवति तदा टीकायाः परिशीलनं कृत्वा गुरुतोऽपि अधिकस्य अर्थस्य विचारं छात्रः स्वयं करोति स्म। तस्मिन् काले शब्दार्थस्य यादृशं महत्त्वं तादृशं महत्त्वं पङ्क्तिपाठस्यापि आसीत्।
आधुनिके समये अर्थस्य विचारः प्रचलति परन्तु ग्रन्थपाठस्य शक्तिः सर्वथा दूरा गता। पाठे या गतिः स्यात् सा गतिः अधुना नैव अवलोक्यते। इति विषयमधिकृत्य काव्यप्रकाशस्य अस्मिन् पाठसंस्करणे छात्रः ग्रन्थस्य मूलां पङ्क्तिम् अवबोद्धं समर्थो भवतु इति धिया इदं संस्करणं सज्जीकृतम्।
एकस्मिन्नपि ग्रन्थे बहवः विषयाः अनुस्यूताः भवन्ति। तथापि तग्रन्थस्य प्रमुखं प्रमुखं विषयं समुघाट्य अल्पे एव काले छात्रः ग्रन्थतः सुपरिचितो भवेत्, इत्यस्य प्रयासः अत्र विधीयते।
काव्यप्रकाशः दश उल्लासेषु विभक्ताः सन्ति। कव्यप्रकाशः कारिका-सूत्र-उदाहरणरूपेण त्रिधा विभक्तम् अस्ति। अत्र कारिकाः 142, सूत्राणि 211 तथा उदाहरणानि 606 सन्ति। एतदतिरिक्तं गद्यभागे व्याख्या वर्तते। प्रथमे उल्लासे सूत्रसंख्या १-४, कारिकासंख्या १-५, प्रथमकारिकातः तृतीयकारिकातः न सूत्रम् अस्ति, चतुर्थकारिकातः सूत्रस्य संकलप्ना प्राभ्यते। कवेः रचना सर्वोत्कृष्टा विद्यते यतो हि विधातुः सृष्टौ सुखं दुःखं च जनाः अनुभवन्ति।