{"product_id":"वाक्यपदीयम्","title":"वाक्यपदीयम्","description":"\u003cp style=\"text-align: left;\"\u003eशब्दे ब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति' 'इयं सा मोक्षमाणानामजिह्मा राजपद्धतिः \"अनादिनिधनं ब्रह्म' 'एकोऽप्यनेकवत्र्मेव समाम्नातः पृथक् पृथक्' इत्यादिसिद्धान्तैः राराज्यमानव्याकरणदर्शनपरम्परायाः प्रमुखाचार्येण महाकविभर्तृहरिणा विरचितं काण्डत्रयात्मकं वाक्यपदीयं शब्दसिद्धान्तप्रतिपादको महान् दार्शनिकग्रन्थो वर्तते। वाक्यपदीयम् मुख्यतः वाक्यपदयोः सिद्धान्तानां विचारणार्थं वर्तते। यथा नाम्नैवाभिज्ञायते 'वाक्यं च पदं च वाक्यपदे ते अधिकृत्य कृतो ग्रन्थो वाक्यपदीयम्' काण्डत्रयात्मकत्वादयं ग्रन्थः त्रिकाण्डीति नाम्नाभिधीयते ।\u003c\/p\u003e\n\u003cp style=\"text-align: left;\"\u003eग्रन्थकर्तुः महाकवेः गुरुराचार्यवसुरात आसीदिति विविधाचार्यैः निष्कर्षभूतं समादृतम्मतम्। एतेषां कालविषये विदुषां नैकमत्यं वर्तते। तत्र केचन विद्वांसः तृतीयशताब्दं, केचन चतुर्थाब्दं, केचन षष्ठाब्दं, केचन च सप्तमाब्दं स्वीकुर्वन्ति। एतदवधारणार्थं यत्र-तत्र ग्रन्थेषु सम्प्राप्ताः सन्दर्भाः, चीनदेशस्य यात्री इत्सिंगस्य पक्षः, जनश्रुतयश्च वर्तन्ते। एभिः विद्वद्भिः विरचिताः नैके ग्रन्थाः विद्वत्समाजे समादृताः सन्ति। शब्दशास्त्रस्य दार्शनिकसिद्धान्तानां प्रतिपादकं काण्डत्रयात्मकं वाक्यपदीयमत्यन्तं सुप्रसिद्धम् इत्यत्र नास्ति विप्रतिपत्तिः। एवमेव नीतिशतकं शृङ्गारशतकं वैराग्यशतकमेतानि त्रीणि शतकानि सुप्रसिद्धानि वर्तन्ते। विविधैः प्रमाणैः ज्ञायते यदेभिराचार्यैः विलिखिता अधोलिखिताः ग्रन्थाः विद्वत्समाजे समर्चितास्सन्ति|\u003c\/p\u003e","brand":"Bhartrhari","offers":[{"title":"Default Title","offer_id":49413641601162,"sku":"9788195383252","price":325.0,"currency_code":"INR","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0592\/8583\/1818\/files\/Screenshot2026-05-12123048_8989e691-529e-4a91-b34a-a0dad5a0ecaf.png?v=1778569323","url":"https:\/\/www.motilalbanarsidass.com\/products\/%e0%a4%b5%e0%a4%be%e0%a4%95%e0%a5%8d%e0%a4%af%e0%a4%aa%e0%a4%a6%e0%a5%80%e0%a4%af%e0%a4%ae%e0%a5%8d","provider":"Motilal Banarsidass","version":"1.0","type":"link"}