{"product_id":"वैयाकरणसिद्धान्तकौमुदी","title":"वैयाकरणसिद्धान्तकौमुदी (Set of 2 Volumes )","description":"\u003cp style=\"text-align: left;\"\u003eसुविदितमेव समेषां विपश्चिदपश्चिमानां यत् व्याकरणशास्त्रस्य प्रक्रियाग्रन्थेषु सर्वोच्चं स्थानं श्रीमद् भट्टोजिदीक्षितकृतायाः सिद्धान्तकौमुद्या : अस्ति। ग्रन्थोऽयं व्याकरणप्रक्रियायाः पूर्णतां कारयति । अत्र अष्टाध्याय्याः समग्राणि सूत्राणि प्रक्रियादृष्ट्या संगृहीतानि सन्ति । आचार्येण भट्टोजिदीक्षितेन भाषादृष्टया वाक्यमभिलक्ष्य (सुपतिङ्ङ्घयो वाक्यम्) सिद्धान्तकौमुदी-पूर्वार्ध-उत्तरार्ध भेदेन विभक्ता। पूर्वार्धे सुबन्तशब्दानां सिद्धौ उपयोगिप्रकरणानि समावेश्य तदन्तर्गते संज्ञा-परिभाषा-सन्धि-सुबन्ताव्यय-स्त्रीप्रत्यय-कारक-समास-तद्धित प्रकरणानि निबद्धानि सन्ति। उत्तरार्धे च तिङ्ङ्क्तप्रकरणानि ण्यन्तादि प्रक्रियाः कृदन्त प्रकरणञ्च प्रतिपादितानि वर्तन्ते। एतदतिरिच्य अन्ते प्रकरणद्वयं महत्त्वपूर्णं समाविष्टं विद्यते - वैदिकप्रकरणं स्वरप्रकरणञ्च।\u003c\/p\u003e\n\u003cp style=\"text-align: left;\"\u003eअन्ते विद्यमानयोः द्वयोः प्रकरणयोः समावेशेन ज्ञायते यत् दीक्षितमहोदयः प्रथमं लौकिकशब्दानां सिद्धिम् इष्टवान्, यतोहि उत्तरकृदन्तस्य अन्ते विद्यमानपुष्पिकया इदमेव सूच्यते- इत्थं लौकिकशब्दानां दिङ्मात्रमिह दर्शितम् । विस्तरस्तु यथा शास्त्रं दर्शितः शब्दकौस्तुभे ॥\u003c\/p\u003e\n\u003cp style=\"text-align: left;\"\u003eपुनः वैदिकशब्दानां निर्वचनाभावमनुभूय भट्टोजिदीक्षितः सर्वान्ते स्वरवैदिकीप्रक्रियां संयोज्य तदनुसारं पृथक् पुष्पिकाम् अवोचत् - इत्थं वैदिकशब्दानां दिमात्रमिह दर्शितम् । तदस्तु प्रीतये श्रीमद् भवानीविश्वनाथयोः ।।\u003cbr\u003eएवं रीत्या महावैयाकरणः भट्टोजिदीक्षितः लौकिकस्य वैदिकस्य चोभयविधशब्दस्य सिद्धिं विधाय प्रक्रियाशैलीं पूर्णताशिखरमगमयत्।\u003c\/p\u003e","brand":"Bhatto Ji Dikshit","offers":[{"title":"Default Title","offer_id":49413594349706,"sku":null,"price":1850.0,"currency_code":"INR","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0592\/8583\/1818\/files\/had225.webp?v=1778566239","url":"https:\/\/www.motilalbanarsidass.com\/products\/%e0%a4%b5%e0%a5%88%e0%a4%af%e0%a4%be%e0%a4%95%e0%a4%b0%e0%a4%a3%e0%a4%b8%e0%a4%bf%e0%a4%a6%e0%a5%8d%e0%a4%a7%e0%a4%be%e0%a4%a8%e0%a5%8d%e0%a4%a4%e0%a4%95%e0%a5%8c%e0%a4%ae%e0%a5%81%e0%a4%a6%e0%a5%80","provider":"Motilal Banarsidass","version":"1.0","type":"link"}