Description
यत्कृपालवमात्रेण मूको भवति पण्डितः । रिक्तः श्रीपतितां याति तं वन्दे श्रीहरिं परम् ॥
वन्दे तं सिद्धिविघ्नेशं गोकर्णस्थं चतुर्भुजम् । सर्वमङ्गलदातारं सर्वधा कुलदैवतम् ॥
वान्छितार्थप्रदातारं गुरुं मन्त्रालयाधिपम् । श्री राघवेन्द्रं यतिपं प्रणमामि मुहुर्मुहुः ॥
१. अद्वैतवेदान्तस्येतिहासः
अद्वैतवेदान्तेतिहासावलोकनात् प्राक् किमिहाद्वैतवेदान्तस्वरूपमित्यवश्यं ज्ञेयं भवति । अतोऽत्र पूर्वमद्वैतवेदान्तस्वरूपं प्रतिपाद्यते ।
परमकारुणिको भगवान् परमेश्वरः स्वस्वकर्मानुगुण्येन सुखदुःखभाजः संसाराम्बुधौ निमग्नाञ्जनानुद्दिधीर्षुरनेका विद्याः प्रवर्तयामास, "ईशानः सर्वविद्यानामीश्वरः सर्वभूतानामि" ति श्रुतेः । विद्याश्च---
अङ्गानि वेदाश्वत्वारो मीमांसा न्यायविस्तरः । धर्मशास्त्रं पुराणं च विद्या होताश्चतुर्दश ।। इति ।
विष्णुपुराणे प्रदर्शिताः । प्रदर्शितविद्यानाम्मध्ये मीमांसा पुनः द्विविधा-कर्ममीमांसा शारीरकमीमांसा चेति । तत्र शारीकमीमांसा श्रीबादरायणाचार्यकृता चतुर्लक्षणी । अस्याः शारीरकमीमांसाया उपरि श्रीशङ्कराचार्या; श्रीरामानुजाचार्याः, श्रीमध्वाचार्याः अन्येऽपि बहवः आचार्या भाष्याणि प्रबबन्धुः ।