{"product_id":"sri-kodanda-bhaskara-raya","title":"युगपुरुषः","description":"\u003cp style=\"text-align: left;\"\u003eचिरञ्जीविनी श्रीमती प्रतापसती सावित्री जन्मनैव उत्साहवती। श्रीमातुः श्रीमदरविन्दस्य च सेवारते मानाप्रगडकुटुम्बे उत्पन्ना नित्यसाधना विविधान् क्लेशान् ज्ञानार्थं कार्यार्थं च सहमाना वर्तते । संस्कृतभारतीसंसर्गेण संस्कृतप्रिया सती जातैषा। बहून् अनुवादग्रन्थान् विरच्य संस्कृतानुवादकर्जी स्वयं सम्भाषणकृष्यैव संस्कृताचार्य-परीक्षामपि उत्तीर्णा। \u003c\/p\u003e\n\u003cp style=\"text-align: left;\"\u003eशोधकार्यमपि कृत्वा सफलां स्वकार्यदीक्षाशीलतां ख्यापितवती। नित्य संस्कृताध्यापिका चाभूत्। 'सम्भवामि युगे युगे, इति नाटिकाऽनुवादोऽपि पुनः पुनःशुध्दः कृतः अनया। अन्ते च टड्ङ्कणे मुद्रणेऽपि इतरैः कृतेषु प्रयत्नेषु विफलेष्वपि स्वयंधैराशौर्या इति । सानन्दम् अविरम्यप्रारब्धप्रयत्नाद् कृतकृत्या जाता एनामभिनन्दामि। एषा नामरूपक्रियाभिः स्वयं सावित्रीति । प्रारब्धमुत्तमगुणा न परित्यजन्ति इति निरूपितवती।\u003c\/p\u003e\n\u003cp style=\"text-align: left;\"\u003eअस्मिन्नाधुनिके रूपके अपि आवश्यकी रचना पदवाक्यादिसामग्रीं सुश्रमेण साधयित्वा कृतार्था जातेति चाभिनन्दामि। संस्कृतरचनमिति कार्यं नाल्पस्य तपसः फलम्। अहं समर्थमन्योऽपि रचनाकार्येषु कुशली न जात इति ममानुभवः, एवात्रोदाहरणम्। ममैषा शिष्यतां भावयतीत्यपि मे गर्वकारणम् ।\u003c\/p\u003e","brand":"Sri Kodanda Bhaskara Raya","offers":[{"title":"Default Title","offer_id":49437845422218,"sku":null,"price":240.0,"currency_code":"INR","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0592\/8583\/1818\/files\/IMG_20260518_0003.jpg?v=1779096524","url":"https:\/\/www.motilalbanarsidass.com\/products\/sri-kodanda-bhaskara-raya","provider":"Motilal Banarsidass","version":"1.0","type":"link"}