🔄

  • श्रीविष्णुसहस्रनामस्तोत्रम्: Shri Vishnu Sahasranama
  • श्रीविष्णुसहस्रनामस्तोत्रम्: Shri Vishnu Sahasranama
  • श्रीविष्णुसहस्रनामस्तोत्रम्: Shri Vishnu Sahasranama
  • श्रीविष्णुसहस्रनामस्तोत्रम्: Shri Vishnu Sahasranama
  • श्रीविष्णुसहस्रनामस्तोत्रम्: Shri Vishnu Sahasranama

श्रीविष्णुसहस्रनामस्तोत्रम्: Shri Vishnu Sahasranama

with Kirit Bhashya
Publisher: Nag Publishers
Language: Sanskrit
Total Pages: 255
Available in: Hardbound
Regular price Rs. 750.00 Sale price Rs. 900.00
Unit price per
Tax included.

Description

महर्षिणा कृष्णद्वैपायनेन वेदव्यासेन विरचितायां भरतसंहितायां लिखितमस्ति यद् यदा शरशय्या-मधिशयानं भीष्मं युधिष्ठिरः परमं धर्मं पप्रच्छ तदा पितामहस्तं श्रीविष्णुसहस्रनामस्तोत्रमकथयत् । श्रद्धावन्तश्च भक्ताश्चिरात् किल तस्य स्तोत्रस्य पाठं कुर्वन्ति । स्तोत्रेऽस्मिन् संगृहीतानां नाम्नां सहस्त्रेण भगवतस्तावन्तो विशेषा अभिहिताः। ते च विशेषा आपाततः प्रतिपदमर्थबोधेन ज्ञातुं शक्यन्ते ।

ततोऽप्यधिको बोध एतेषां नाम्नां प्रकृति-प्रत्यय-विवेकपुरस्सरं भवितुर्महति ।

वचनैः सोऽयं संहिता-ब्राह्मणोपनिषदितिहास-पुराण-दर्शन-तन्त्र-काव्य-कोश-व्याकरणादीनां बोधविशेषो विशदतरः प्रमाणितश्च भवति । सर्वमिदं कृत्यजातं पण्डितवर्येण डॉक्टरकृष्णदत्त भारद्वाजे नास्य स्तोत्रस्य स्वरचिते किरीटभाष्ये निर्यूढम् । तस्मादस्य भाष्यस्याध्येतारः श्रद्धालवो भक्ता निर्वचनरसिका जिज्ञासवो विद्वांसश्च लाभान्वित भवितुमर्हन्ति 

अस्य भाष्यस्य परिशिष्टरूपेण द्वितीयं प्रस्तूयमान ग्रन्थरत्नमस्ति पद्यपुष्पाञ्जलिरिति । उपर्युक्तस्य पण्डितवर्यस्यास्यां कृतौ क्रमेणाष्टानां देवतानां गुणानुरागपुरस्सरं विरचितानि स्तोत्राणि विद्यन्ते -सूर्यस्य, गणपतेः

जगदम्बायाः, शिवस्य, वासुदेवस्य प्रायेण हनुमतः, गङ्गायाः, यमुनायाश्च ।

 विविधच्छन्दोऽनुसारेण निबद्धानि स्तोत्राणीमानि पाठकानामन्तःकरणेषु

 भक्तिरसप्रवाहं संवर्धयितुं पारयन्ति । डॉक्टरभारद्वाजः पूर्वमपि बहुभिः

 पद्यश्रीप्रभृतिभिः सम्मानैर्लोकेषु प्रथितयशाः । प्रस्तूयमानेन ग्रन्थद्वयेन

 भूयोऽपि पण्डितवर्यस्याम्य वैदुष्यं भक्तिभावः कवित्वं च यौगपद्येन पाठव।

 नां पुरस्तात् प्रादुर्भविष्यन्तीति विश्वसिमः ।