🔄

सनातनधर्मे योगदान्

सनातनधर्मे योगदान्

Publisher: Sanskrit Shauryam Prakashan
Language: Sanskrit
Total Pages: 270
Available in: Hardbound
Regular price Rs. 1,125.00
Unit price per
Tax included.

Description

विदितमेव तत्र भवतामास्तिकजनानां धर्मधूरीणानां यदिह जगतीतले चतुरशीतिलक्षयोनिषु जन्मपरम्परामनुभूयानेक जन्मार्जितपुण्यप्रभावैर्मनुष्य शरीरमासादयति जीवलोकः । तदुक्तम् - कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् । इति। तदिदं मनुष्यशरीरं लब्ध्वाऽपि नैव सर्वोऽपि जीवलोकः जन्मपरम्परामनुभवन् दुःखसागरमुत्तरीतुं प्रभवति, किन्तु तत्राधिकतराः पुनरपि ता एव चतुरशीतिलक्षयोनिषु जन्मपरम्परा अनुभवितुं प्रवर्तते। तादृग्विधे च वैषम्ये नान्यदुपलभ्यते मूलम्, ऋते पुण्यपापयोः। पुण्यपापयोश्च प्राणिकर्तृकं कर्म एव मूलमिति।

किं कर्म पुण्यजनकं किञ्च पापजनकमिति गवेषणीयम्। तत्र च तद्बोधको वेद एवेति। इदानीमस्माकं देशे धर्मशब्दः सम्प्रदायशब्दश्च विवादस्य विषयः जातः। किमत्र कारणं न जाने परन्तु धर्म विना सामाजिकानां व्यवहारः असम्भवः । मनुष्यस्यासाधारणो धर्मः मनुष्यता तया विहीनः पशुः असुरो वा। अनेन ज्ञायते सर्वेषु वस्तुषु पदार्थेषु च सामान्येन एकः, असाधारणो धर्मः भवत्येव। येन धर्मेण तद्वस्तुनः अस्तित्वं लोके स्वीक्रियते। अतः धर्मः सर्वैः सेवनीयः धारणीयश्च। आनन्दद्भाष्यानुसारं धर्मस्य लक्षणम् - धर्मो नाम स्ववर्णाश्रमाचारानुष्ठानजन्यः पुण्यक्षालितः ।