🔄

  • मृच्छकटिकस्य धर्मशास्त्रीयसमीक्षा- Mrichchaka Tikasya Dharma Shastriya Samiksha

मृच्छकटिकस्य धर्मशास्त्रीयसमीक्षा- Mrichchaka Tikasya Dharma Shastriya Samiksha

Publisher: Nag Publishers
Language: Sanskrit
Total Pages: 266
Available in: Hardbound
Regular price Rs. 600.00 Sale price Rs. 750.00
Unit price per
Tax included.

Description

साहित्यं हि तात्कालिकसमाजस्य दर्पण इति प्रसिद्धम्। तत्र निखिललोकव्यवहारदर्पणोपमे संस्कृतकाव्ये सकलशास्त्रवद् धर्मशास्त्रमपि प्रतिबिम्बते। महाकविशूद्रकप्रणीतं मृच्छकटिकं नाम प्रकरणं दृश्यकाव्यम्। तत्र भूयांसो धर्मशास्त्रीयविषयाः समुपलभ्यन्ते। तेषां सङ्कलनं धर्मशास्त्रदृष्ट्या समीक्षणं च जिज्ञासूनां महोपकाराय कल्पेत। इदानीन्तनः समाजो धर्मपथात् प्रविचलति। मृच्छकटिककालिक-समाजस्य धर्मशास्त्रसम्मता जीवनसरणिरिदानीन्तनं समाजं धर्ममयजीवनाय प्रेरयेदिति धिया ग्रन्थोऽयमुपनिबद्धः ।

प्रस्तुतोऽयं ग्रन्थः सप्तस्वध्यायेषु विभक्तः। अत्र शूद्रकस्य मृच्छकटिकस्य च परिचयः, मृच्छकटिके धर्मः, वर्णाश्रमधर्मपुरुषार्थसदाचाराः, संस्कारपञ्चमहायज्ञदानशुद्धयः, राजधर्मः, स्त्रिया धर्मो धनं च, प्रकीर्णविविधविषयाश्च धर्मशास्त्रीयस्वरूपप्रदर्शनपुरस्सरं समीक्षितानि ।

एवमयं ग्रन्थो मृच्छकटिके लभ्यमानानि धर्मशास्त्रीयतत्त्वानि काव्यशास्त्रीयवैशिष्ट्येन सह प्रकाशयति ।