🔄

  • मृत्युरयं कस्तूरीमृगोSस्ति : Mrityurayam Kasturimrigoasti (1998)
  • मृत्युरयं कस्तूरीमृगोSस्ति : Mrityurayam Kasturimrigoasti (1998)
  • मृत्युरयं कस्तूरीमृगोSस्ति : Mrityurayam Kasturimrigoasti (1998)
  • मृत्युरयं कस्तूरीमृगोSस्ति : Mrityurayam Kasturimrigoasti (1998)

मृत्युरयं कस्तूरीमृगोSस्ति : Mrityurayam Kasturimrigoasti (1998)

Publisher: Dr. Harshdev Madhva
Language: Sanskrit
Total Pages: 80
Available in: Paperback
Regular price Rs. 300.00
Unit price per
Tax included.

Description

प्राक्कथनम्
प्रकाशक : स्वयं कविः
मृत्युरयं कस्तूरी मृगोऽस्ति विक्रेता पार्श्व पब्लिकेशन, निशापोल, झवेरीवाड, रिलीफरोड, अमदाबाद ३८० ००१. प्र.सं. १९९८
सङ्कलनेऽस्मिन् हर्षदेवमाधवस्य विविधा रचना विलसन्ति । तत्र प्रथमो विभागो नाट्यसंग्रहरूपो द्वितीयश्च संस्कृतलेखसंग्रहात्मकः । प्रथमे विभागे सप्तरूपकाणि सन्ति, द्वितीये च विभागे आधुनिकसंस्कृतसाहित्यमधिकृत्य सप्तलेखाः । यथा काव्यरचनायामपरिचितेषु क्षेत्रेषु साहसिकोऽयं कविः सञ्चरति, तथैव रूपककर्तृत्वेनाप्ययं सर्वथा नवीनामेव सरणि श्रयते । तस्य रूपकाणि पाश्चात्त्यरङ्गमञ्चे प्रचलितां विसङ्गतनाट्यशैलीं प्रकटयन्ति । एतेषां पाठेन न भास-कालिदासादीनामपितु सेमुएलबेकेट-प्रभृतीनां स्मरणं जायते । 'कब्रस्थाने' इति रूपकं मृतपुरुषयोः संवादं प्रस्तौति । प्रत्येकं संवादे स्खलदक्षरा द्वित्राः पञ्चषा वा शब्दाः सङ्केतगर्भभाषाया अद्भुतरूपमाविष्कुर्वन्ति । रूपकमिदमाकाशवाण्याः प्रसारितपूर्वम् । 'चिताग्निः साक्षिरूपो वर्तते' इति रूपके पात्राणि सन्ति प्रेतद्वयम् आसन्नमृत्युश्चैका कन्या । मृत्युबोधस्य साक्षात्कारो रूपकमिदं विशेषयति । संवादास्त्वेवं प्रचलन्ति -
१. अन्धकारः....
२. अन्धकार एवात्र....
१. अन्धकारे विजने श्मशाने....
२. शमीवृक्ष...
(पृ. ६)
'कामला' इति लीलानाट्यमिह व्यपदिष्टम् । अत्र सूत्रधारस्य सङ्केतेन-दर्शकवर्गादुत्थायोत्थाय नवयुवानो नाट्ये सम्मिलिता भवन्ति । शर्मण्यदेशीयनाट्यकर्तृ रङ्गकर्मिणो ब्रेख्तमहोदयस्य पद्धतिरिह अङ्गीकृता । एवमेव परीक्षेति रूपकमपि लीलानाट्यम् । एतयो रूपकयो पात्राणां समूहः मञ्चे प्रभवति ।
'जिगमिषा' इति रूपकमनन्तयात्रायाः साङ्केतिकीमभिव्यक्ति विदधति । अत्र यातृद्वयं शैलेशश्च पात्राणि । 'कस्तूरीमृगोऽस्त्ययं मृत्यु' रिति रूपके कालोद्याने सुरभिपुष्पमाघ्राय राजपुत्रो मृत्युं याति तदनु प्रमत्तकः रक्षकौ चापि तमनुकुर्वन्ति । सर्वथा प्रतीकात्मकमिदं रूपम्। अस्तित्ववाददर्शनच्छाया एतादृशरूपकेषु श्लिष्टा । एवमेव विद्यते 'नवं जन्म, नवानि कर्माणि नवं फल' मिति रूपकम् । अत्र पात्राणि सन्ति स्वर्गात् पलायितो मानवः नरकाद् विसृष्टो मानवः स्वर्गनरक