🔄

  • साधना- Sadhana (2010)
  • साधना- Sadhana (2010)
  • साधना- Sadhana (2010)
  • साधना- Sadhana (2010)
  • साधना- Sadhana (2010)
  • साधना- Sadhana (2010)

साधना- Sadhana (2010)

Publisher: Delhi Sanskrit Academy
Language: Sanskrit
Total Pages: 55
Available in: Hardbound
Regular price Rs. 300.00
Unit price per
Tax included.

Description

अयि देववाणीसमाराधनैकव्रतास्तत्र भवतां भवतीनाञ्च करकमलेषु 'साधना' इति पुस्तकं समर्पयन्नतितरां प्रसन्नतामनुभवामि । दिल्ली संस्कृत अकादमी प्रतिवर्ष श्लोकसमस्यापूर्तिप्रतियोगितामायोजयति । विगतवर्षे ऽस्याः प्रतियोगितायाः विषय आसीत् 'साधना', अखिलभारतीयस्तरीयायां प्रतियोगितायामस्यां विषयेऽस्मिन्नूनत्रिंशत् प्रविष्टयः सम्प्राप्ताः । अकादम्याः मूल्याङ्कनानन्तरमधिगताङ्कानां क्रमेणाष्टाविंशति कवीनां कवयित्रीणाञ्च श्लोकान् संगृह्य सम्पाद्य च 'साधना' इति शीर्षकोपेतः ग्रन्थोऽयं प्रकाश्यते। अकादम्या अध्यक्षाणां माननीयानां मुख्यमन्त्रिवर्याणां श्रीमतीनां शीलादीक्षित महोदयानामुपाध्यक्षाणां श्रीमतां श्रीकृष्णसेमवाल महोदयानां कृपाभिः दिल्लीसर्वकारस्य भाषाकलासंस्कृतिविभागस्य सचिवानाञ्च स्नेहेन कार्यमिदं सम्पन्नतां गतम्, तान्प्रत्यहं हार्दिकीं कृतज्ञतां ज्ञापयामि । सम्पादनादिकार्येषु सहयोगायाकादम्या उपसचिवं (प्रकाशनं) सहायकसम्पादकञ्च प्रत्यहं कार्तज्यं ज्ञापयामि। पुस्तकस्य मुद्रणाय 'डॉल्फिन प्रिन्टो ग्राफिक्स' इति मुद्रकस्यापि धन्यवादं ज्ञापयामि। विभिन्नानां कविकवयित्रीणां काव्यसाधनाभिः सुगुम्फितोऽयं ग्रन्थो लोकमङ्गलाय भवेदिति मे कामना।

विदुषामनुचरः

सुरेशचन्द्र शर्मा

सचिवः