Description
व्याकरणशास्त्रे
यथाऽष्टाध्याय्याः सूक्ष्मतम रूपं विद्यते लघुसिद्धान्त-कौमुदीतथैव साहित्यशास्त्रे वेविद्यते स्थानं विश्वनाथरचितसाहित्यदर्पणस्य । ग्रन्थ एषोऽधीतः स्याद् यैः साहित्य-शास्त्रच्छात्रैः तैः खलु साहित्यशास्त्रस्य सर्वेषां विभागानामेवाध्ययनं कृतं स्यात् । एतस्य ग्रन्थस्योपरि यद्यपि बद्व्यः टीकाः कृता व्याख्याकारैः, परं समुपलभ्यन्ते अष्टावेव टीकाः । एतासां सर्वासां टीकानां समवेतेनैकत्र समीकरणं स्यादिति बहु-विमृष्टं मया बहुकालात् । यथैव प्राप्ताः सर्वास्तथैवैकत्रीकृताः सर्वाः । एतासु टीकासु विवृतिनाम्नी टीका छात्राणां शोधकानां च कृते बहुविचारावहा । किञ्च कुसुमप्रतिमाऽपि स्वविशिष्टं स्थान-माधत्ते । वस्तुतः सर्वा एव व्याख्या वि-शेषतो विवृतिमनुकुर्वते ।
अस्मिन् ग्रन्थे प्रथमं मूलपाठः पृष्ठोपरि प्रदत्तः ततश्च क्रमेण विवृति-विवृतिपूर्ति-विज्ञप्रिया-लोचन- कुसुमप्रतिमा-विमला-लक्ष्मी-रुचिरा नाम्नीटीकानां पाठाः प्रदत्ताः । कालक्रमेणापि परिपाटी एषैव दरीदृश्यते । एतासां सर्वासां टीकानां तुलनात्मकमध्ययनं कुर्वतां समालोच-कानां कृते ग्रन्थ एष मार्गप्रदर्शकः स्मया-दित्या स्ते सम्पादकस्य मनीषा मनसि ।