Description
प्रस्तावना
स्वनामधन्या महामहोपाध्यायाः श्रीगोपीनाथकविराजमहोदया विश्वविद्यालयस्यास्य योगतन्त्रविभागस्य श्रद्धेया आचार्या आसन्। वस्तुतोऽस्य विश्वविद्यालयस्य विश्वस्मिन् जगति येयं प्रतिष्ठा सम्प्रत्यपि विराजतेतमाम्, तस्या अनुपमं श्रेयः श्रीकविराजमहोदयानां वर्तते। ते ह्यस्य विश्वविद्यालयस्य प्राक्तनस्वरूपस्य काशिकराजकीयसंस्कृतमहाविद्यालयस्य प्राचार्याः, विश्वविख्यातस्य तस्य सरस्वतीभवनग्रन्थालयस्य ग्रन्थाध्यक्षाश्चासन्। सरस्वतीभवने सङ्गृहीतानां पाण्डुलिपीनां सम्पादनस्य प्रकाशनस्य च कार्यक्रमस्तेषां नेतृत्वे प्रावर्तत, सोऽयं कार्यक्रमः सम्प्रति प्रतिवर्ष संवर्द्धमानो विश्वविद्यालयस्य गौरवं महिमानं च संवर्द्धयन् आस्ते इति महतो, हर्षप्रकर्षस्य विषयः। वस्तुतोऽस्य सर्वस्यापि विद्यावैभवस्य मूले तेषामवदानं स्वर्णाक्षरैः समुल्लेखनीयम्।
एकत्र स्वकीयेन गभीरेण वैदुष्येण, अपरत्र च साधनाया अतिशयेन तैर्न केवलमस्या नगर्याः, अपि तु सर्वस्यापि राष्ट्रस्य गरिमा प्रावर्द्धत। ते भारतशासनेन 'पद्मभूषण' इति सम्मानोपाधिना सम्मानिताः। तेषां महनीयः शताब्दिसमारोहोऽपि भारतराजधान्यां देहल्यां वाराणस्यां कलिकातानगर्यां च महता समारम्भेण समायोजितः। तत्र च श्रद्धेयैः काशिकगौरवैः स्व० पण्डित-श्री कमलापतित्रिपाठिमहोदयैः, पूर्व-प्रधानमन्त्रिभिः श्री-पी. वी. नरसिंहारावमहोदयैश्च तेभ्यः स्वकीयश्रद्धाञ्जलिः समर्पितः। महान्तो विद्वांसस्तैर्दीक्षिता अभवन्। तेषु माननीयानां महामहोपाध्याय-श्रीगिरिधरशर्मचतुर्वेदिसदृशानां विदुषां नाम विशेषतः स्मर्तुं शक्यते। ते जीवनमुक्ता अभवन्, तेषां च अभिनन्दनार्थं प्रकाशितः "गोपीनाथ कविराज अभिनन्दन-ग्रन्थ" इति ग्रन्थस्तन्त्रवाङ्मयस्यानुपमशब्दकोशत्वेन सर्वैः समादृतः। ते हि महनीयाया प्रातः स्मरणीयाया ब्रह्मलीनाया मातुः आनन्दमयीमहोदयायाः प्रेयांसः शिष्या आसन्, तस्या अनुग्रहेण कृतार्थितं च तेषां जीवनम्। अयमस्ति सौभाग्यस्य प्रसङ्गो यदनेन विश्वविद्यालयेन गतवर्ष एव महाबौधिसोसायटीद्वारा प्राप्तानुदानेनैका कविराजस्मारकव्याख्यानमाला प्रवर्तिता,