Description
वैयाकरणसिद्धान्तमञ्जूषा व्याकरणशास्त्रीयपदार्थतत्त्वविवेचना---निकषतया प्रकाशतेतरां नितराम्। म०म० नागेशमभट्ट कृतिरियं प्रथम-मध्यमोत्तमाधिकारिणामुपयोगसौलभ्याय रूपत्रयं धारयति (१) बृहन्मञ्जूषा (वै० सिद्धान्तमञ्जूषा), (२) लघुमञ्जूषा, (३) परमलघुमञ्जूषा चेति। तत्राद्या अध्ययनाध्यापनयो र्नागता, अतएव चिरादप्रकाशितैव विद्वत्कदम्बलोचनपरोक्षैवावस्थितासीत्। साम्प्रतमेतत्प्रकाशने जाते जिज्ञासवस्तत्र दृष्टिक्षेपणं विधायावलोकयन्ति यदेतेषु त्रिष्वपि रूपेषु क्वचित् क्वचिद् विचारभेदोऽप्यवलोक्यते। तत्र अनेकानि कारणानि भवितुमर्हन्ति - (१) विस्तृतग्रन्थस्य संक्षेपीकरणकाले मध्यतः कस्यचन शब्दस्य, वाक्यस्य वा अपहारः सम्भाव्यते, (२) कालान्तरे एकस्यापि लेखकस्य बुद्धौ विचारान्तरोपस्थितिः, (३) वासनान्तरतया तथालेखनम्, (४) प्रतिलिपीकरणे परवर्तिनां प्रमाद इत्यादीनि।
बृहन्मञ्जूषायां विस्तरेण तात्त्विकतया विशेषविचारा उपस्थापिताः सन्ति। तथाविधविचारनिरूपणावसरे आपाततः प्रतीयते यन्नागेशो वैयाकरणसिद्धान्तम् अन्यथा करोतीव, परन्तु तत्त्वतः तथा नास्ति। स सूक्ष्मदृष्ट्या व्यावहारिकदृष्ट्या चात्र तथाविधान् विचारान् समुपस्थापयति ।
एवंविधविचाराणां समीक्षणायैव ममायं प्रयासोऽस्ति। यदि विवेचका मद्विचारं समर्थयिष्यन्ति तदाग्रेऽपि प्रयासो मम भविष्यति। तावल्लक्षणान्तो भाग एव समीक्ष्य विदुषां पुरतः समुपस्थाप्यते। अत्र स्वकथ्यपरिपुष्टये महाभाष्य-वाक्यपदीयाद्याकरग्रन्थानां पङ्कयः टिप्पण्यां समुपन्यस्तीकृताः सन्ति। तत्समुपन्यासेन नागेशस्य शास्त्रैकनिष्ठापि सम्पोषिता स्यादिति मन्ये।