🔄

  • श्रीवायुमहापुराणम्:-Srivayumahapuranam
  • श्रीवायुमहापुराणम्:-Srivayumahapuranam
  • श्रीवायुमहापुराणम्:-Srivayumahapuranam
  • श्रीवायुमहापुराणम्:-Srivayumahapuranam

श्रीवायुमहापुराणम्:-Srivayumahapuranam

The Vayu Maha Purana
Publisher: Nag Publishers
Language: Sanskrit
Total Pages: 115
Available in: Hardbound
Regular price Rs. 1,500.00 Sale price Rs. 1,800.00
Unit price per
Tax included.

Description

भूमिका

प्रथमं सर्वशास्त्राणां पुराणं बह्मणा स्मृतम् ।

भारतवर्षस्य स्वरूपं वस्तुतोऽवगन्तुं प्राचौना खस्य परम्पराः सम्यगवगाहनीयाः। परम्पराश्चैता वेदेषु पुराणेषु इतिहासग्र येषु च सुतरां निशिताः सन्ति। तत्रापि वेदानां प्राचीनता सर्वप्रमाणसिद्धा। वैदिकं वाङ्मयमितिहासपुरा-सयोः साहय्येनैवापव् हणीर्यमितिः भूयोभूयः प्रतिपादि-तम् ।

इतिहासपुराणाभ्यां वेदान् समुपबू हयेत् ।

इतिहासवत्पुराणमपि लोकशिक्षायाः पद्धतिविशेपः । पद्धतिरियं विश्वानं जनसमूहं शिक्षयितुं समुदमिषत् । यशादिब्यर्वेसरेषु पर्वसु तीर्थेषु वा स्वतः समुपस्थितं जन-समूहमुपदेष्टुमृषिभिरियं प्रणाली विकाश्चिता। पुराणानां माध्यमेनाध्यात्मिकं वैज्ञानिकं च चिन्तनं सरलतया जनसामान्यं माषत् प्राश्यन्तिस्म मनीषिणः। निन्त्रिलमपि समाजं शिक्षयितुमियं प्रणाली यतीव प्राभाविकी याता । एवं विद्यालयादिस्थापनमन्तरैव पुराणद्वारा लोकशिक्षणस्य स्थायी परम्परा स्थापिता। सा खलु युगेऽस्मिन् क्रमशः क्षीयत इत्युनुभूयते ।

पुराणेषु वणितानां धटनानां च सत्यासत्यविचा-रोऽनर्थकः, यतस्तेषां तत्र गौणता भवति। प्रतिपाद्यविषय एव मुख्यः । तमेव विषयं हृदयङ्गमयितुं विधिरयं पुराणस्पोन्मिषितः । अत एवात्र परवत्तिमामपि जनानां क्वचिदुल्लेवाः प्राप्यते । प्रत्ररत्र क्वचित् कल्पितानामपि कथानामुपवर्णनं प्राप्यते। पशूनां पक्षिणामपि तत्र जीवनं क्वचित् चित्रितं दृश्यते। अतः भावरूपेणैव सत्यता पुराणानामपेक्ष्यते न तु विषय रूपेण। अत एव पुरापि नवमिति पुराणस्य व्युत्पत्तिः संग व्छते ।

पुराणानां वष्र्ण्यविषयः सर्गप्रतिसर्गों वंशो मन्वन्तराणि संशानुचरितमिति पञ्चात्मकः प्रसिद्धः। प्रतिपाचं तु तेषां सर्वेषामध्यात्ममेव । निश्चिलमिदं जगत् परात्पररूपस्य परमेश्वरस्यैव स्थूलं शरीरम्। सर्वेष्वपि प्राणिषु चैतन्यं यदनुभूयते तत्सर्वं वासितब्रह्म। श्राव्यापिनः परमात्मनः स्वरूपम् । मनुष्यैरेव केवलैः शक्यते साक्षात्कर्तुं तत् । तदर्थमेव वेदानामवगमः पुराणानां च प्रादुर्भावः सञ्जातः ।

पुराणानामाविर्भावस्तु वस्तुतः केनापि देवताविशेषेणैव कृतः कस्मिन्नपि प्रसङ्गविशेषे। महर्षिणा व्यासेन तु तेषां सम्पादनं कृतम् । अतएव स पुराणानां कर्ता रचयिता वा कथ्यते-

अष्टादश पुराणानां कर्ता सत्यवती सुतः ।

महर्षेरस्य नामास्ति कृष्णद्वैपायनः । तस्यैव प्रास्या व्यास इति वेदानां चतुर्धा विभाजनात् जाता। व्यासेन चतुभ्यः शिष्येभ्यः वेदा उपदिष्टाः पैलादिभ्यः। सूताय लोहर्षाय पुराणानि वणितानि । व्यास्वक्षिष्यात् लोम-श्रृवंसाद सूतात् नैमिषारण्ये शौनकादयो महर्षयो मुनयश्न पुराणानि जग्रहुः । कदाचित् तस्य सूतस्थ पुत्रः सौतिरपि पितुः सकाशादधिगृह्य पुराणविद्यात्मृषिभ्यो ग्राड्यामास । अनन्तरं पौराणिकैरनेकैव्यासः पुराण विद्येय भारते निलिले प्रसारमवाम। यतोऽद्यावधि पौराणिका व्यासपदेनाभिनन्द्यन्ते ।