🔄

  • साहित्य जिज्ञासा : Sahityajijnasa (2015)
  • साहित्य जिज्ञासा : Sahityajijnasa (2015)
  • साहित्य जिज्ञासा : Sahityajijnasa (2015)
  • साहित्य जिज्ञासा : Sahityajijnasa (2015)

साहित्य जिज्ञासा : Sahityajijnasa (2015)

Publisher: Sanskrit Pustak Bhandar
Language: Sanskrit
Total Pages: 190
Available in: Hardbound
Regular price Rs. 600.00
Unit price per
Tax included.

Description

सम्पादकीयम्

महदिदं प्रमोदकारणं यत् 'साहित्यजिज्ञासा' इति साहित्यशोधप्रबन्धानां सङ्कलनात्मको ग्रन्थो वाग्देव्या आशिषा प्रकाशतां याति । गवेषणकर्मणि सर्वदा अपेक्षणीयानि वर्तन्ते समीक्षणं परीक्षणं पर्यवेक्षणमभीक्षणञ्च । ग्रन्थेऽस्मिन् नवनवोन्मेषशालिनां गवेषकाणां गवेषिकाणाञ्च गवेषणाधर्मिणः निबन्धाः साहित्य-काव्यतत्त्वदृश्यकाव्यानुकरणतत्त्वार्वाचीनसंस्कृतसाहित्यादिविषयाः समीक्ष्यन्ते परीक्ष्यन्ते च । साहित्यविषयकजिज्ञासानां सदुत्तरप्रदानमेव ग्रन्थस्यास्य मूलं लक्ष्यम्।

अस्य ग्रन्थस्य पर्वद्वितयं वर्तते। प्रथमे पर्वणि विविधासु विद्वत्संगोष्ठीषूपस्थापितेषु आन्तर्भारतीयपत्रिकासु प्रकाशितेषु विंशत्यधिकेषु गवेषणानिबन्धेषु केवलाः षट्संख्यकाः निबन्धाः सञ्चित्य अत्र सहृदयेभ्य उपायनीक्रि यन्ते । संस्कृतकाव्यमीमांसापरिसरे साहित्यस्वरूपमुपाश्रित्य यथा द्विसहस्राधिक कालव्यापिनि तत्त्वसमृद्धिशालिनि प्राच्यविदां मतानि उपलभ्यन्ते तथैव पाश्चात्त्यविदां बहवो वादाः प्रादुरभवन् । प्रसङ्गानुसारं ग्रीग्कवेः होमारस्य 'इलियाड' ओडिसि' चेति महाकाव्यद्वितये प्रतिभासितं साहित्यस्वरूपं, 'प्लेटो' इत्यस्य साहित्यमीमांसायां गुरुत्ववाहि अनुकरणतत्त्वम्, आरिस्टटलेन समं