Description
नूतनशिक्षणदीक्षितेषु साम्प्रतिकगवेषकविद्या-र्थिविपश्चित्सु शब्दशास्त्रीयमूलालापनमपि कठिनकठिनम्, का कथा मतमतान्तरालोचनप्र-त्यालोचनवैचक्षण्यसम्भाव्यनिष्कर्षप्रकर्षप्राप-णीयतायाः । तत्रापि वैयाकरणदिग्देशदिग्ग-जयोः भट्टोजिदीक्षितनागेशभट्टयोः परमपा-ण्डित्यप्रचोदितसिद्धान्ताः नितान्तमुद्वेजयन्ति तत्त्वबुभुत्सुचेतः । विषयमिममाश्रित्य प्राचीन-गुरुशिष्यपरम्परापरेण गौरवास्पदगुरोर्गरिमा-गर्भितेन विद्वत्तल्लजेन प्रणीतोऽयं ग्रन्थो नूनं चिरप्रतीक्षितापेक्षितशाब्दिकरिक्तक्षेत्रं पिपर्ति । ग्रन्थेऽस्मिन् अन्तरुदरे वैयाकरणज-गति प्रसिद्धैकोनत्रिंशत्सिद्धान्ताः सयुक्तिख-ण्डनमण्डनपूर्वकाः प्रदत्तप्रामाणिकनिष्कर्षाः सूक्ष्मेक्षिकया मीमांस्यन्ते ।
दीक्षितस्य च नागेशस्य ग्रन्थोदधिमन्थनात् । यत्नादुत्थामृतन्तत्त्वम्पीत्वा प्रीणन्तु पाठकाः ।।