Description
1. श्रीमन्दिरम्
उत्कलराज्यस्य यज्ञपुरमण्डलेऽस्ति सुवर्णपुरीनाम्ना प्रथिता पल्ली। तत्र कति ब्राह्मणाः सेवाधर्मपरायणाः सज्जना नाना शास्त्रेषु कृतभूरिपरिश्रमा वैदिकाचारनिष्ठा यज्ञदानधर्मानुसारिणः स्वाध्या-यानुरता भगवत आखण्डलेश्वरचरणकमल-संसेवनैकरसाः शान्तिप्रियाः शैवा निरन्तरं वैदिकविज्ञानाध्ययनेन निर्मलान्तः करणा निवसन्ति। तस्मात् स्थानमिदं ब्राह्मणशासनमिति कथ्यते। तेषु संस्कृत-संस्कृतिसंरक्षेकेषु नैष्ठिकेषु विप्रेषु नारायणदाशनाम्ना सुलक्षणो वेदविद्याप्रवीणोऽसाधारणो ब्राह्मणो निवसति । अस्ति समग्रे ग्रामे तस्य महती प्रतिष्ठा। सर्वेषां मुखेषु तस्य प्रशंसा सर्वेषां स प्रियः ।
गृहं तस्य सुन्दरं यथैकं मन्दिरम्। लघुः परिवारः। त्रयो जनाः। गृहे तस्य पत्नी साक्षात् स्थिरा लक्ष्मीः। यथा रूपं तथा तस्याः कर्म। पतिसेवा तस्या धर्मः। पुत्रो विनयः । गुणेन माननीयः। अध्ययने बाल्यादेव तस्य महती श्रद्धा। ज्ञानग्रहणे, सञ्चयने, सम्पादने च प्रबला रुचिः। आखण्डलेश्वरकृपाकटाक्षं तस्योपरि वर्तत इति तत्रत्यानां जनानां विश्वासः । नारायणदाशस्य गृहे न कदापि किञ्चिदघटनम् आधिदैविकम्, आधिभौतिकम्, आध्यात्मिकं वा घटितम्। असुन्दरमद्यावधि कदा न जातम्। शान्तिर्यथा सर्वेभ्यः स्थानेभ्यो विनिर्वृत्य तत्र दीर्घश्वासं नयते। सुखं यथा तत्रादर्शबालक इव पितुर्मार्गमनुसरति। आनन्दो यथा तत्र स्वयं नन्दति । अनन्यसाधारणा अवारितधारा कलकलनादिनी स्नेहकल्लोलिनी नित्यं यथा तत्र प्रवहति। हसति यथाशावल्ली। विलसति यथा विश्वासपादपः। लसति यथा सुखसौन्दर्यवसन्तस्याव्यक्तवैखरी। अप्रतिहतायाः प्रशान्तेः सुशीतलः समीरणः ।
आखण्डलेश्वरोपरि नारायणदाशस्य गभीरा श्रद्धा। असीमा प्रीतिः । अचिन्तनीया भक्तिः । महान् विश्वासश्च। स यत् करिष्यति तत् सर्वं तस्य गृहकृते मङ्गलकरं भवेदिति तस्यात्मप्रत्ययः । यत् सर्वं सुखकरमद्यावधि जातं सर्वं तत् प्रभोः परमेश्वरस्य सेवाफलम्। तस्य करुणामयस्य करुणारेणूनां पराक्रमः। तस्य कृपादृष्टेः कमनीयकान्तिः । तस्मात्तस्य मनसि, वचसि तथा कर्मणि वसति परमेश्वरः। विचरति समेश्वरीया सौन्दर्यसम्मोहिनी प्रणयचन्द्रिका। "विश्वासे मिलति कृष्ण" इति
श्रीमन्दिरम्