Description
परम्परानुसारम् 'इतिहासपुराणाभ्यां वेदं समुपबृंहयेद्' इति न्यायान् महर्षिणा वेदव्यासेनाऽष्टादशपुराणानि प्रणीय वेदार्थस्यो पबृंहणमकारि। अष्टादशमहापुराणानां रचनानन्तरमेकदेवताविषयकाणि सम्प्रदायविशेषविषयकाणि वा यानि पुराणानि मुनिभिर्व्यासेन वा लिखितानि तान्येवोपपुराणौपपुराणत्वेन सुधीभिरङ्गीकृतानि । प्रारम्भे त्वुपपुराणानां सङ्ख्याऽप्यष्टादशैवाऽऽसीत्, किन्तु शनैः शनैरन्यान्यप्युपपुराणानि रचितानि, तस्मादेतेषां सङ्ख्या बहुत्वङ्गता। विभिन्नमहापुराणेषूपपुराणेषु चोपपुराणानां सूची या समुपलभ्यते, तस्यां त्वष्टादशसङ्ख्यैव निगदिता वर्तते। एष्वष्टादशोपपुराणेष्वेव 'श्रीमद्भार्गवोपपुराणस्यापि नाम नयनपथगोचरतामुपयाति। उपपुराणस्याऽस्याऽप्रकाशित त्वात्सम्पादनमध्ययनं च बहुसमयादेवाऽपेक्षितमवर्तत। उपपुराणमिदमद्यावधि हस्तलिखितग्रन्थागारेषु विराजते स्म। महत्प्रयासेनाऽस्य मातृकाः सङ्गृह्य शोधार्थिना सम्पादनकार्य साध्ययनमत्र प्रत्यपादि ।
श्रीमद्भार्गवोपपुराणं वैष्णवसम्प्रदायसर्वस्वभूतानामालवारभक्तानां भूतसरोमहदाहह्वयादीनां वर्णनं विदधाति। उपपुराणेऽस्मिंश्चत्वारिंशदध्याया वर्तन्ते। प्रत्यध्यायसमाप्तिपुष्पिकायां लिखितमिदमुपलभ्यते- 'इति श्रीमद्भार्गवे उपपुराणे उत्तरखण्डे नरनारायणसंवादे महायोगिमाहात्म्ये (ऽमुको) ऽध्यायः' इति। पुराणेषु प्रथितः सूतोऽस्ति मुख्यो वक्ताऽस्योपपुराणस्य शौनकादय ऋषयः श्रोतारः प्रष्टारश्च । अस्योपपुराणस्य कथाः श्रीनरनारायणसंवादत्वेन परिचर्चिता वर्तन्ते। अस्मिन्नुपपुराणे मुख्यतया भूतसरोमहदाह्वययोगिनां जन्मचरित्रं तेषां क्षेत्रयात्रावर्णनम्, श्रीभक्तिसारशठकोपमधुरकविकुलशेखरविष्णुचित्तगोदाम्बाभक्तपादरेणु मुनिव। हनपरकालयोगिनां चरित्राणि, लक्ष्म्याश्चरित्रम्, न्यासयोगमाहात्म्यम्, श्रीनाथयामुनरामानुजयतीश्वराणामपि संक्षेपेण जन्मचरित्राणि च प्रतिपादितानि । इत्थं सहस्रद्वयाधिकेषु श्लोकेषु प्रणीतमिदमुपपुराणं वैष्णवयोगिनां वर्णनं प्रस्तौति ।
अस्योपपुराणस्याऽनेकाः पाण्डुलिपयो हस्तलिखितपुस्तकालयेषु संरक्षिताः सन्ति, तेषु 'क, ख, ग, घ' इति चतस्रो मातृकाः क्रमशोऽखिलभारतीयसंस्कृतपरिषल्लक्ष्मणपुराद्, लखनऊ विश्वविद्यालयस्य टैगोरपुस्तकालयाद्, जवाहरलाल नेहरूपुस्तकालयबम्बईनगरात्, प्राच्यशोध संस्थानबड़ौदापत्तनाच्च समादाय प्रथमतयाऽस्योपपुराणस्य पाठालोचनपूर्वकं सम्पादनकार्य विहितम्। एतासां सर्वासां पाण्डुलिपीनां परिचयोऽध्ययनभागे समुपस्थापितः ।
अस्य ग्रन्थस्याऽध्ययनभागे श्रीमद्भार्गवोपपुराणस्य कालकर्तृत्वविषयादीनां निर्धारणं विस्तरेण प्रतिपादितम्। श्रीवैष्णव सम्प्रदायस्य योगिनां यतीश्वराणां च संक्षिप्तपरिचयस्याऽपेक्षितत्वादत्राऽऽलवाराणां श्रीनाथादिमुनीनां जन्मनक्षत्रकालादीनां वर्णनं कुर्वता शोधकर्त्रा तत्कर्तृत्वमप्युदलेखि ।