Description
'संस्कृतवाङ्मये कृषिविज्ञानम्' इत्ययं नाम्नैव कृषिविषयकशास्त्रज्ञान प्रतिपादक इति ज्ञायते । ग्रन्थेऽस्मिन् वैदिकसंहितात आरभ्य विंशतिशताब्दीपर्यन्तं संस्कृतभाषया विरचितेषु शास्त्रीयग्रन्थेषु प्राप्तानि कृषिविषयकतत्त्वानि निबद्धानि । तत्र च क्रमशः कृषेः तात्त्विकं व्यावहारिकं च प्रयोजनं, भारतीयकृषेः स्वरूपं, कृषिपद्धतौ महत्त्वपूर्णान्यङ्गानि कृष्यपदार्थाः कर्षणं, वपनं, सेचनम्, कृषिरक्षणम् इत्यादीन्यतिरिच्य भारतीयवर्णव्यवस्थान्तर्गतं कृषिकर्माधिकारः कृषेरुद्भवविकासौ कृष्यधान्यविवेकः क्षेत्र-पथहिंसा तद्रक्षणोपायाः (वृक्षायुर्वेदः) भूमिच्छिद्रपिधानम् कृषिप्रबन्धनं कृषिपद्धतौ नक्षत्रादियोगश्चेति एतेषु सन्दर्भेषु संस्कृत-वाङ्मये प्रोक्तं शास्त्रं संक्षेपेण प्रस्तुतमस्मिन् ग्रन्थे। आधुनिक भारतीयकृषि-क्षेत्रे भारतीय-कृषिशास्त्रोक्तविज्ञानमेतन्नूनमुपयोगित्वमर्हति काञ्चित्परम्परां चावहति।