🔄

समासरत्नम् - Samasaratnam

समासरत्नम् - Samasaratnam

Publisher: SARASWATAM PUBLICATION
Language: Sanskrit
Total Pages: 286
Available in: Hardbound
Regular price Rs. 1,192.50
Unit price per
Tax included.

Description

समासशब्दस्य निष्पत्तिः समुपसर्गपूर्वकाद् अस् धातोः घञ् प्रत्ययेन (सम्+अस्+घञ्) भवति। सिद्धान्तचन्द्रिकाकार आह नाम्नामन्वये सति समासः' अर्थात् प्रथमान्तादीनां पदानां पदयोर्वाऽन्वये सति यो विधिः स समासः। पदस्यास्य विग्रहस्त्वित्थम्- समसनं समासः। सम्पूर्वकाद् अस्यतेर्भावे घञ्।

अनेकस्य पदस्य एकपदीभवनमित्यर्थः। भावे (२.१.३) इति सूत्रेण भावार्थे घञ् प्रत्यये स्वीकृते सत्यस्य व्युत्पत्तिः समसनं समास इति प्रथितम्। अकर्तरि च कारके संज्ञायाम् (३.३.१८) इत्यनेन सूत्रेण कर्मणि प्रत्ययविधानेन समस्यत अनेकं पदम् इति व्युत्पत्तिः। हलश्च (३.३.१९) इति सूत्रेण अधिकरणे घञ् प्रत्ययविहिते समस्यते अस्मिन् इति समासः। इत्थं त्रिधा समासशब्दो निष्पद्यते।

समसनं समास अर्थात् संक्षेपीकरणं समासः, अतः समासस्यार्थो भवति संक्षेपी-करणमिति। तत्संक्षेपीकरणं विभक्तिलोपपूर्वकं संसाध्यते।

अतः परस्परसमर्थसाकाङ्क्ष-पदयोः पदानां वा प्रक्रियाविशेषेण सम्पाद्यमानं यत्कर्म येनैकपदीभवनं संसाध्यते तत्समासो निगद्यते। महर्षिपाणिनिः अष्टाध्याय्यां 'प्राक्कडारात्समासः' (२.१.३) सूत्रादारभ्य 'कडाराः कर्मधारये' (२.२.३८) सूत्रपर्यन्तं दशाधिकशतसूत्रेषु (११०) समासत्वसम्पादकानां विशेषनियमानामुल्लेखम् अकरोदिति।

निष्कर्षेण कथ्यते यद् अनेकेषु पदेषु ऐक्यसंपादनम्, संक्षेपीकरणम्, समसनम्, संक्षेपणम्, परस्परसाकाङ्क्षपूर्वोत्तरपदानां संक्षेपणपूर्वकमैक्यसंपादनं वा समासः। यद्यपीयं समासवृत्तिः 'समर्थः पदविधिः' इति शास्त्रानुशासनात् समर्थपदानां समर्थपदैः साकमेव भवति। तथाऽपि कुत्रचिद् असमर्थपदेष्वपि समासो दृश्यते। तद्यथा-असूर्य पश्या राजदारा, अपुनर्गेयाः सामेत्यादयः।