Description
पुरोवाक्
श्रीसदानन्दयतीन्द्रविरचितोऽयं स्वरूपप्रकाशाख्यो ग्रन्थः ऐदम्प्राथम्येन संस्थानेन प्रकाश्यत इति नितरां मोमुद्यामहे। एतस्य रचयिता वेदान्तसाररचयितुः श्रीसदानन्दाद् भिन्न इति स्पष्टम्। एतस्य प्रबन्धा श्रीसदानन्दयतीन्द्रः काश्मीरदेशीयः श्रीब्रह्मानन्दसरस्वतीनां सच्छिष्यः। अद्वैतवेदान्तमतानुसारेणात्र आत्मस्वरूपं प्रकाशितमस्ति। परिच्छेदक्रमेण चतुर्धा विभक्तोऽयं ग्रन्थ इत्यत्र ग्रन्थकर्तुर्वाक्यमेव प्रमाणम्। तद्यथा तृतीयपरिच्छेद आरम्भे परिच्छेदद्वयेन त्वम्पदार्थप्रकाशनं कृतं, चतुर्थपरिच्छेदस्यारम्भे च परिच्छेदत्रयेण दृक्पदार्थः प्रकाशितः इति।
आत्मतत्त्वप्रकाशाख्ये प्रथमे द्वितीये च परिच्छेदे स्वप्रकाशपरमानन्दरूपे आत्मनि सर्वसंसारधर्मासंसर्गिणि स्थूलसूक्ष्मशरीरद्वयतत्कारणाविद्याख्योपाधित्रय-विवेकेन मिथ्याभूतस्यापि संसारस्य सत्यत्वप्रतिभासो बन्धः तन्निवृत्तिस्तु मोक्ष इत्यद्वैतसिद्धान्तानुसारेण सरलं निरूपणं मोक्षस्य केनाऽप्यप्रस्तुतपूर्वम् । निरूपणावसरे श्रीशङ्करभगवत्पादस्य वार्त्तिककारस्य च मतान्युल्लिख्य सप्रमाणं प्रस्तौतीत्यस्य ग्रन्थस्य वैशिष्ट्यम्। तृतीये परिच्छेदे तत्पदार्थों निरूप्यते । अन्वयादिपरिकल्पितानां पदार्थानां दृग्दृश्ययोरेवान्तर्भावात्, तौ द्वावेव तत्पदार्थवाचिनाविति निरूपयति। तत्पदार्थनिरूपणस्यावश्यकता केति विचार्य तत्पदार्थप्रकाशनं विना वक्ष्यमाणतत्त्वमस्यादिमहावाक्यार्थासम्भवात् तन्निरूप्यत इति दृक्पदार्थं तर्कसङ्गतं विचारयति। चतुर्थे परिच्छेदे दृश्यं सम्यक् प्रकाश्यते। तच्च अव्याकृत-अमूर्त-मूर्तभेदेन त्रेधा विभज्य साभासाऽविद्या चैतन्यतादात्म्यापन्ना मूर्त्तामूर्त्तप्रपञ्चबीजरूपा भवतीति सरलं शास्त्रीयं च प्रतिपादयति। पातञ्जलोक्तमष्टाङ्गयोगं विनापि वेदान्तविचारेण श्रवणादिपूर्वकेण कैवल्यमिति भगवत्पतञ्जलिकृताम् आर्यापञ्चाशीतिकामेव प्रमाणत्वेनोद्धृत्य अभिनवं निष्कृष्य ग्रन्थपूर्ति विदधाति ।