Description
महाकविः कालिदासः
कुसुममित्युदीरिते परिमलस्येव, मधुमास इत्यभिहिते कुसुमस्येव, ऋतुचक्रमित्युक्ते च मधुमासस्येव भारतमित्युक्ते संस्कृतस्य, संस्कृत-मित्युदीरिते कालिदासस्य, कालिदास इत्यभिहिते च महाकवित्वस्य स्वयमेवोपपद्यते स्मृतिः। पर्यायतामिवापन्ने हि ध्वनिकारसमयादेव कालिदास इति महाकविरिति च सुगृहीताक्षरे पदे। कालिदासात् परं लब्ध्वाप्यनितर-साधारणं प्रतिभागुणं रूपकमेव कैश्चिन्निरमायि न महाकाव्यम्, महाकाव्यमेव वा कैश्चिन्निरमायि न रूपकम्, तदुभयस्य स्वरूपमात्रं चैकेन निरवर्त्ति न त्वात्मा। ततश्चैतस्मिन्नतिविचित्रकविपरम्परावाहिनी सुमहति महाकालप्रवाहे संपूर्णेऽपि वसुमतीतले सर्वास्वपि च भाषासु सिद्धसरस्वतीकैरपि महात्मभिर्न तथा निर्यूढो महाकवीनां मार्गो यथा कुमारसंभवादिवेधसा कालिदासेन। एवं निस्सपत्न एव महाकविविरुदः कालिदासस्य साम्प्रतमपि। इदानीं यावत् तासु तासु भाषासु, तेषु तेषु च देशेषु समुत्पन्ना ये कवयस्तेषां परम्परायां साम्प्रतमपि कालिदास एव दीपशिखायते, अधितिष्ठति च कनिष्ठिकाम्। नास्त्येषाऽऽस्माकीना श्रद्धा, अनुभवपरीक्षे अपि तथैवेति सुदृढं प्रतीमः। अयमत्रास्माकं श्लोकः-
एके सत्कवयः प्रबन्धरचनाशौण्डीर्यधुर्याः परे नानारूपकसन्धिबन्धकलनाटोपैकबद्धादराः वाचामेव विचित्रगुम्फनविधावन्येऽद्भुता किन्तु यः सामग्र्येण समग्रतां कवयतेऽसौ कालिदासः परम् ।।
सोऽयं महाकविर्भगवतीं सरस्वतीमात्मनैरपेक्ष्येणैव समाराधयति नैष्कर्म्ययोगेनेवात्मकलां योगी। नासौ निर्दिशति स्वकीयं गोत्रम्, न परामृशति